________________
भाष्यगाथाः ४२३७-४४]
तृतीय उद्देशः ।
११५१
10
वसरणे द्वाचत्वारिंशद्दोषदुष्टमपि कल्पते । एवं कश्चित् परो भणेत् तत्र सूरिराह-द्वयोरपि समवसरणयोर्न कल्पन्ते । भूयोऽपि परः प्राह—यद् यूयं द्वितीयेऽपि समवसरणे प्रतिषेधयथ तन्न युज्यते, यतः 'श्रुतं' सूत्रमेव "कल्पते" इति ब्रुवाणमनुज्ञां सूचयति ॥४२४०॥ अपि च
एवं सुत्तविरोधो, दोच्चम्मि कप्पति त्ति जं भणितं ।।
सुत्तणिवातो जम्मि त, तं सुण वोच्छं समासेणं ॥ ४२४१॥ 5 एवं भवतां सूत्रेण समं विरोधः प्राप्नोति, यतः सूत्रे “द्वितीये समवसरणे कल्पते" इति भणितम् । अथ गुरुराह–सर्वमप्येतदाकाशरोमन्थनमिव लक्ष्यते, सूत्राभिप्रायमनवबुध्यैव यथातथाप्रलपनात् । कः पुनः सूत्राभिप्रायः ? इति चेद् अत आह-यस्मिन्नर्थे सूत्रस्य निपातः-अवतारस्तं शृणु 'समासेन' सङ्केपेण वक्ष्येऽहम् ॥ ४२४१ ॥
सोसरणे उद्देसे, छबिधे पत्ताण दोण्ह पडिसेधो ।
अप्पत्ताण उ गहणं, उवधिस्सा सातिरेगस्स ॥ ४२४२ ॥ प्रथमसमवसरणं ज्येष्ठावग्रहो वर्षावास इति चैकार्थम् । द्वितीयसमवसरणम् ऋतुबद्ध इति चैकार्थम् । तत्र य उद्देशस्तद्विषयः षड्विधो निक्षेपः कर्तव्यः । “पत्ताण दुण्ह पडिसेहो" ति आर्षत्वाद् विभक्तिव्यत्यये 'द्वाभ्यां' क्षेत्र-कालाभ्यां प्राप्तानां वस्त्रादिग्रहणे प्रतिषेधो भवति, अप्राप्तानां तु सातिरेकस्योपधेर्ग्रहणं भवति इति' नियुक्तिगाथासमासार्थः ॥ ४२४२॥ 15
अथ विस्तरार्थ उच्यते-तत्रोद्देशः षोढा-नामोद्देशः स्थापनोद्देशः द्रव्योद्देशः क्षेत्रोद्देशः. कालोद्देशो भावोद्देशश्चेति । नामोद्देशो यस्योद्देश इति नाम क्रियते । स्थापनोद्देश उद्देशवतः पुरुषादेः स्थापना । द्रव्योद्देशं ज्ञ-भव्यशरीरव्यतिरिक्तं वयमेव भाष्यकृदाह
दव्वेणं उद्देसो, उद्दिस्सति जो व जेण दव्वेणं ।।
दव्वं वा उदिसते, दव्यभूओ तदट्ठी वा ॥ ४२४३ ॥ 'द्रव्येण' रजोहरणादिना यद् उद्देशः क्रियते स द्रव्योद्देशः । यो वा 'येन' सचित्तादिना द्रव्येणोद्दिश्यते, तत्र सचित्तेन यथा-गोभिर्गोमान् , तुरगैस्तुरगपतिः, गजैगजपतिरिति; अचित्तेन यथा-दण्डेन दण्डी, छत्रेण छत्री, कपालेन कपालीत्यादि; मिश्रेण यथाशकटेन शाकटिकः, रथेन रथिक इत्यादि । द्रव्यं वा व्याधिप्रशमनं यदुद्दिशति, अमुकमौषध. द्रव्यं भवता ग्रहीतव्यमिति । 'द्रव्यभूतो वा' ज्ञाता अनुपयुक्तो यद् अङ्ग-श्रुतस्कन्धादिकमुद्दि-25 शति । 'द्रव्यार्थी वा' द्रव्यनिमित्तं धनुर्वेदादिकं यदुद्दिशति एष सर्वोऽपि द्रव्योद्देशः ॥ ४२४३॥
खित्तम्मि जम्मि खित्ते, उदिस्सति जो व जेण खेत्तेण । [आव.नि.१०७३]
एमेव य कालस्स वि, भावो उ पसत्थमपसत्थो ॥ ४२४४ ॥ क्षेत्रोद्देशे चिन्त्यमाने यस्मिन् क्षेत्रे अङ्ग-श्रुतस्कन्धादेरुद्देशः क्रियते व्यावय॑ते वा; यो वा येन क्षेत्रेणोद्दिश्यते-अभिधीयते, यथा-भरते भवो भारतः, सुराष्ट्रायां भवः सौराष्ट्रः, 30 मगधेषु भवो मागध इत्यादि । एवमेव च यस्मिन् काले अङ्गादिकमुद्दिश्यते, येन वा कालेनोद्दिश्यते, यथा-सुषमायां भवः सौषमः, शरदि जातः शारद इत्यादि; एष कालोद्देशः ।
१°ति सङ्ग्रहगा भा० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org