________________
15
११५०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ समवसरणप्रकृते सूत्रम् १५ प्राप्तानि प्रथमसमवसरणोद्देशप्राप्तानि 'चेलानि' वस्त्राणि प्रतिग्रहीतुम् । किमुक्तं भवति ?इह साधवो यत्र वर्षावासं चिकीर्षवस्तत् क्षेत्रं यावद् नाद्यापि प्राप्नुवन्ति प्राप्ता वा परं नाद्याप्याषाढपूर्णिमा लगति तावत् कल्पन्ते वस्त्राणि प्रतिग्रहीतुम् । अथ वर्षावासप्रायोग्यं क्षेत्रं प्राप्ताः
आषाढपूर्णिमा च सञ्जाता तत इयन्तं क्षेत्र कालविभागं प्राप्तानि वस्त्राणि न कल्पन्ते । 54 'द्वितीयसमोसरणोद्देशप्राप्तानि तु कल्पन्ते । » इति सूत्रसङ्केपार्थः ॥ साम्प्रतं विस्तरार्थमभिधित्सुः प्रेर्यमुत्थापयन्नाह -
पढमम्मि समोसरणे, उद्देसकडं न कप्पती जस्स ।
तस्स उ किं कप्पंती, उग्गमदोसा उ अवसेसा ॥ ४२३७ ॥ इह परः प्रस्तुतसूत्रस्य सूरिपरम्परायातमनन्तरोक्तमर्थमनवबुध्यमानः प्रेरयति-ननु च 10 सूत्रे "उद्देसपत्ताई" ति यत् पदं तस्यायमर्थः-उद्देशनमुद्देशः-औद्देशिकाख्यो द्वितीय
उद्गमदोषस्तं प्राप्तानि वस्त्राणि न कल्पन्ते, एतच्च न युज्यते, यतो यस्य साधोः प्रथमसमवसरणे उद्देशकृतं वस्त्रादि न कल्पते तस्य अवशेषाः आधाकर्मादयः पञ्चदशोद्गमदोषाः किं कल्पन्ते ? यदेवमुद्देशकृतमेव प्रतिषिध्यते ॥ ४२३७ ॥ पर एव सूरीणामभिप्रायमाशङ्कय परिहरति
___ उद्देसग्गहणेण व, उग्गमदोसा उ सव्वे जति गहिता।
__उप्पादणादि सेसा, तम्हा कप्पंति किं दोसा ॥ ४२३८ ॥ अथ “एकग्रहणे तज्जातीयग्रहणम्" इति न्यायाद् उद्देशग्रहणेन सर्वेऽप्युद्गमदोषा गृहीताः; एवं तर्हि उत्पादनादयः शेषा दोषाः किं कल्पन्ते ? येनोद्गमदोषा एव गृह्यन्ते ॥ ४२३८ ॥ पर एवाचार्यस्याशयमाशङ्कमान इदमाह___अहवा उद्दिस्स कता, एसणदोसा वि होति गहिता तु ।
आदीअंतग्गहणे, गहिया उप्पादणा वि तहिं ॥ ४२३९ ॥ अथवा यस्मादेषणादोषा अपि साधून 'उद्दिश्य' प्रणिधाय कृताः अत उद्देशग्रहणेन तेऽपि गृहीताः । एवं च आद्यस्य-उद्गमदोषकलापस्य अन्त्यस्य च-एषणादोषजालस्य ग्रहणे उत्पादनादोषा अपि गृहीता अत्र मन्तव्याः, "आद्यन्तग्रहणे मध्यस्यापि ग्रहणम्" इति न्यायात् । अतो द्वाचत्वारिंशदपि दोषा न कल्पन्ते इति सिद्धम् ॥ ४२३९ ॥ 25 एवमाचार्यस्याकूतमाशय दूषणान्तरमाह
एए अ तस्स दोसा, उडुबद्धे जं च कप्पते चित्तुं ।
कोई भणिज दोसु वि, ण कप्पति सुतं तु सूएति ॥ ४२४० ॥ यद्येवं सामर्थ्याक्षिप्ता द्वाचत्वारिंशदपि दोषाः प्रथमसमवसरणे प्रतिषिद्धास्तहि ऋतुबद्धाख्ये द्वितीयसमवसरणे एते सर्वेऽपि दोषास्तस्य साधोः कल्पन्ते; यथा अत्रैव सूत्रेऽभिहितम्39 "कल्पन्ते द्वितीयसमवसरणे उद्देशप्राप्तानि चेलोनि प्रतिग्रहीतुम्" अतोऽपि ज्ञायते द्वितीयसम
१> एतचिह्नान्तर्गतः पाठः भा० नास्ति ॥ २ यथाऽग्रेतनसूत्र एवाभिधास्यते-"कल्पन्ते द्वितीयसमवसरणे उद्देशमाप्तानि चेलानि प्रतिग्रहीतुम्" एवं कश्चित् परो ब्रूयात् तत्र सूरिराह इति भा० पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org