Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
११६४ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ समवसरणप्रकृते सूत्रम् १५
सीतं अविसहमाणे, गेहंति इमाएँ जयणाए ॥ ४२९४ ॥ तथाविधवस्त्राभावाद् बाला-ऽसहिष्णु-वृद्ध-लान-क्षपक-शैक्षाकुले गच्छे शीतम् 'अविषहमाणे' सोढुमशक्ते साधवोऽनया यतनया खक्षेत्रे परक्षेत्रे वा वस्त्राणि गृहन्ति ।। १२९४ ॥
पंचूणे दो मासे, दसदिवसूणे दिवड्डमासं वा। . दस-पंचऽधियं मासं, पणुवीसदिणे व वीसं या ॥ ४२९५ ॥ पन्नरस दस य पंच व, दिणाणि परिहरिय गेण्ह एगं वा ।
अहवा एकेक दिणं, अउणट्टिदिणा' आरम्भ ॥ ४२९६ ॥ आगाढे कारणे पञ्चभिर्दिवसैरूनौ द्वौ मासौ परिहृत्य वस्त्रं ग्रहीतव्यम् । अथ तावन्तं कालं यावद् बाल-वृद्धादयः शीतेन परिताप्यमाना न संस्तरन्ति ततो दशदिवसोनौ द्वौ मासौ परि10 हृत्य वस्त्रं ग्राह्यम् । एवं सार्धमासं दशदिवसाधिकं वा पञ्चदिवसाधिकं वा अन्यूनाधिकं वा । मासं पञ्चविंशतिदिनानि विंशतिदिनानि पञ्चदशदिनानि दशदिनानि पञ्च वा दिनानि यथा
क्रमं परिहृत्य वस्त्रं गृह्णीयात् । अथ पञ्च दिवसानपि वस्त्राभावे बाल-वृद्धादयो नात्मानं निर्वाहयितुमीशास्ततश्चत्वारि त्रीणि द्वे यावदेकमपि दिनं परिहृत्य ग्रहीतव्यम् । अथवा
एकैकदिनहानिरत्र द्रष्टव्या, तद्यथा-यत्र वर्षावासं स्थितास्तत्र षष्टिदिनानि परिहृत्य उत्सर्गतो 16 वस्त्रग्रहणं कर्त्तव्यम् , कारणे पुनरेकोनषष्टिदिनान्यारभ्येकैकदिनं हापयता तावद् वक्तव्यं यावदेकमपि दिनं परिहृत्य वस्त्रग्रहणं कार्यम् ॥ ४२९५ ॥ ४२९६ ॥ व्याख्यातं प्रथमसमवसरणसूत्रम् , सम्प्रति द्वितीयसमवसरणसूत्रं व्याख्याति
बिइयम्मि समोसरणे, मासा उक्कोसगा दुवे होति ।
ओमत्थगपरिहाणीय पंच पंचेव य जहण्णे ॥ ४२९७ ॥ 20 द्वितीयं समवसरणं नाम-ऋतुबद्धकालः, तत्र मासकल्पेन स्थिता वस्त्रादिकमुपकरणमुत्पा
दयन्ति, मासकल्पानन्तरं च तत्र द्वौ मासावुत्कर्षतः परिहर्त्तव्यौ भवतः । कारणे तु तथैवावामुखपरिहाण्या पञ्च पञ्च दिनानि हापयता तावद् नेयं यावद् जघन्यत एकं दिनं परिहर्त्तव्यम् ॥ ४२९७ ॥ अमुमेवार्थ स्फुटतरमाह
अपरिहरंतस्सेते, दोसा ते चेव कारणे गहणं ।
बाल-बुड्ढाउले गच्छे, असती दस पंच एक्को य ॥ ४२९८ ॥ यत्र क्षेत्रे मासकल्पः कृतस्तत्र द्वौ मासावपरिहरतस्त एव दोषा मन्तव्या ये वर्षावासे मासद्वयमपरिहरत उक्ताः । कारणे तु ग्रहणं कर्त्तव्यम् , कथम् ? इत्याह-बाल-वृद्धाकुले गच्छे वस्त्राभावे पञ्चकपरिहाण्या एकैकपरिहाण्या वा तावद् वक्तव्यं यावद् दश वा पञ्च वा एको वा दिवसः परिहर्तव्यः । यत्र संविनैर्मासकल्पो वर्षाकल्पो वा कृतस्तत्र मासद्वयादुपरि पञ्चसु 30दिवसेष्वपूर्णेष्वन्येषां न कल्पते किञ्चिदपि ग्रहीतुम् ॥ ४२९८ ॥
१ 'म् ॥ ४२९५॥ ४२९६ ॥ सूत्रम्-कप्पइ निग्गंथाण वा निग्गंथीण वा दोञ्चसमोसरणुदेसपत्ताई चेलाई पडिगाहित्तए ॥ अत्र भाष्यम्-बिहयम्मि भा० । चूर्णी विशेषचूर्णी चापीदं सूत्रं पूर्वमुपन्यस्त्रमपि (दृश्यता पत्र ११४९ टिप्पणी १) पुनरत्राप्युपक्षिप्तं वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444