Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ अद्वैतदीपिकायां चतुर्थः परिच्छेदः उपोद्घातः इदानीं श्रीनमिहाश्रमविरचितायाः अद्वैतदीपिकायाः चतुर्थः परिच्छेदः इदंप्रथमतया संमुद्रय प्रक्तश्यते / अयं च ग्रन्थः जयतीर्थकृतन्यायसुधोक्ताद्वैतदूषणानां समाधानानि वेदान्ताभिमतानि व्यक्तीकुर्वन् अद्वैतशास्त्रस्य यथावदधिगमे महदुपकरोति / भगवत्पादश्रीशङ्कराचार्या हि श्रतीनां मुख्यार्थमेव परिगृह्य वेदान्तार्थम्पपादयन्तः श्रुत्यर्थोपपादकान् न्यायांश्च पदे पदे प्रकाशयन्ति “श्रुतेः" इति स्वपक्षसाधकच ति प्रदश्यं "उपपत्तेश्च" इति श्रुत्यर्थोपपादकन्यायान् प्रदर्शयन्ति / अत एव श्रीपद्मपादाचार्याः पञ्चपादिकारम्भे ‘नमाम्यभोगिपरिवारसंपदं निरस्तभूतिमनुमार्धविग्रह" इति गुरु स्तुवन्तः भगवत्पादीयभाष्यमेव तदीयशरीरं तच्चार्धनानुमानात्मकं अर्धान्तरेण तु श्रुत्यात्मकं इति श्लेषेण सूचयन्ति / ___ अत एव शांकरोऽभिप्रायः श्रुतिविरुद्ध इति वक्तुमशक्नुवन्तः द्वैतविशिष्टाद्वतपण्डिताः अद्वैताभिमतप्रक्रियां खण्डयितुं प्रयतन्ते / 'एकमेवाद्वितीयं ब्रह्म' 'तत्त्वमसि' 'अहं ब्रह्मास्मि' 'सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन्यदास्ते' इति 'अनेन जीवनात्मनाऽनुप्रविश्य' इत्यादिश्रुतिभिः प्रतिपादितवेदान्ततत्त्वं केनाप्यपलपितुं न शक्यते। यद्यपि प्रत्यक्षेण द्वैतमेवावगम्यते नाद्वैतं तथापि प्रत्यक्षात् बहुशः दृष्टविपर्ययात् अपौरुषेयं अप्रामाण्यलेशेनाप्यकलङ्कितं शास्त्रं प्रबलं प्रत्यक्षं बाधित्वा स्वप्रमेयं व्यवस्थापयति-यथा प्रत्यक्षतो जीवभेदः प्रतीयते प्रतिशरीरं सुखदुःखादिभंदात् / शास्त्रं तु "एको देवः सर्वभूतेषुगूढ" इत्यादिश्रुत्या जीवाभेदमाह / तत्र शास्त्रप्राबल्यं प्रत्यक्षं तु औपाधिकभेदमादाय निर्वोढुं शक्यते / मतान्तरीयास्तु शास्त्रापेक्षया प्रत्यक्ष प्रबलं वदन्तः प्रत्यक्षानुसारेण शास्त्रस्य गौणार्थेन निर्वाह इत्याहुः / अत एव तेषां 'तत्त्वमसि' वाक्यस्य तदीयस्त्वमसीत्यर्थः अथवा अतत्त्वमसीति विगृह्य जीवात् ब्रह्मणो भेद इति द्वैतिनः। विशिष्टाद्वैतिनस्तु त्वंपदस्य जीवशरीरकार्थत्वमाहुः वेदान्तप्रक्रिया अपि प्रत्यक्षानुमानाद्यविरोधेन समर्थयितुं शक्या एवेति प्रदर्शयितुं सत्र भवन्तः श्रीनृसिंहाश्रमिणः श्रीमधुमूदनसरस्वत्यश्च प्रायतन्त उपपादयांचक्रुश्च / यत्त व्यावहारिकसत्तामादाय लोकव्यवहारोपपत्तिरिति नानुमन्यासहे सत्यस्यैकत्वात् सत्यभेदासंभवात् “सत्यभेदः कुतोऽन्वयं" इति भट्टपादा, इत्याहुः / तन्न। व्यावहारिकसत्यमित्यस्य सत्यत्वेन व्यवहारमानं इत्यर्थः। सचाङ्गीकर्तव्य एव / भेदमेव तावद्विमृशामः / घटे पटभेदः पटे घटभेदश्च लोकप्रसिद्धः। तत्रायं प्रश्नः भेदस्य घटस्य चैक्यं

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96