Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटोकाद्वैतदीपिकायाम् शरीरविशिष्टस्य केवलजीवादन्यत्वे तस्य तस्मादनिष्पत्तेः। अनन्यत्वेऽपि शरीरमात्रस्यवोत्पत्तेः / सन्मूला इत्यनेनैतत्सिद्धेरितरवैयर्थ्याच्च / धान्यमसीत्यत्रापि धान्याधीनत्व प्रतिपाद्यते विनियोगबलात् धान्यशब्देन कथञ्चित् तण्डला एवोपस्थाप्यन्ते / तदधीनत्वस्थाप्यवास्तवस्य शास्त्राप्रतिपाद्यत्वात् / वाक्यान्तरेण तस्य सिद्धत्वाच्य। यदधीना यस्य सत्तेत्यादि भारतवचनं च तव न साधु / तदकार्यस्य जीवस्य वस्तुतो भिन्नस्य तदधीनसत्ताकत्वायोगात् / कल्पितभेदस्यैव तदधीनसत्ताकत्वात् / तद्वदित्यतिदेशोऽप्यनुपपन्नः / अतिदेशज्ञापकाभावात् / बहुगुणेत्यादिसूत्रे तु एक_वेत्यादिवत् कतिपयेत्यादिप्रयोगसिद्धयर्थं वति विनाप्यतिदेश आदतः / न चेह तथा किश्चित् तेन विनाऽनुपपन्नमस्ति / न च त्वंपदमुख्यार्थलाम एव प्रयोजनम्। त्वंपदवाच्ये श्वेतकेतौ ब्रह्मसारूप्यस्य बाधितत्वात् / न च मुक्तौ तद्वदिति वाक्यार्थः। मुक्तिवाचकपदाभावात् त्वंपदेन मुक्तिविशिष्टजीवलक्षणायां अतिदेशकल्पकाभावात् / असोति वाक्यार्थस्य वर्तमानत्वश्रुति केवलजीवस्य तस्माद्ब्रह्मणः अनिष्पत्तेः तत्र तद्वयपदेशायोगादित्यर्थः / शरीरमात्रस्यैवेति / विशेष्यस्य जीवस्य नित्यत्वात् तत उक्तदोषादित्यर्थः / तदधीनत्वात्तद्व्यपदेश इत्यत्र परोक्तोदाहरणं तावदूषयति--धान्यमसीति / धान्य मसीति दृषदि तण्डुलानधिवपति इति वाक्यन धान्यमसीति मन्त्रस्य तण्डुलाधिवापे विनियुक्तत्वात् लक्षणया धान्यपदेन तण्डुलाः स्मार्यन्ते इन्द्रपदेनेव गार्हपत्यः न तु तेषां धान्याधीनत्वं तदर्थ इत्यर्थः / / पराभिन्ने जीवे वास्तवतदधीनत्वासंभवात् कल्पितमेव तत्तत्रेति न तस्यात्राभिधानमित्याह---तदधीनत्वस्येति / वाक्यान्तरेणेति / प्राणबन्धनं हि सोम्य मन इति वाक्येनेत्यर्थः / अत्र परमात्मा प्राणपदार्थः / मन उपाधिको जीवो मन इत्युक्तः। अतिदेशपक्षं दृष्टान्तवैषम्येण दूषयति---तद्वदित्यादिना / मुख्यार्थलाभ एव प्रयोजनमिति तच्चातिदेशकमिति शेषः। तत्र किमतिदेशार्थः चतुर्भुजत्वादिसादृश्यं किं वा नित्यज्ञानादिमत्त्वं ? नाद्य इत्याह-त्वंपदवाच्य इति / अतिदेशकल्पकाभावादिति / त्वंपदमुख्यार्थत्वं हि तत्कल्पक तस्य लक्षकत्वे कुतोऽतिदेशसिद्धिरित्यर्थः / असीति पदविरोधादपि न मुक्ती सादृश्यं तद्वाक्यार्थ इत्याह-असीति / द्वितीयमुद्भावयति-नित्यज्ञानादिमत्त्वमिति / नित्यज्ञानानन्द देः भावरूपाविद्यातिरिक्तेनावरणायोगात् / तस्याश्च त्वयाऽनभ्युपगमात् / तवानुपलंभविरोधो दुनिवार इति दूषयति-नाविद्यामिति / जीवाश्रितनित्यज्ञानादिकं चाविद्यमानमित्याह-जीवातिरिक्तेति /

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96