Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 58 सटीकाद्वैतदीपिकायाम् न चाभेद एव संसर्गों वाक्यार्थः। भिन्नयोरभेदायोगात् स्वरूपमात्राभोदस्य संसर्गत्वाभावात् / तथा च परिशेषात् वाक्य खण्डार्थनिष्ठमेव / नवीनाभिप्रार्यानरास: अत्राह नवीन:-तदाश्रितत्वाज्जीवे तदिति व्यपदेशः समर्थः पदविधिरित्यत्र समर्थपदाश्रितोविधिः समर्थ इति पदेनोच्यते इति महाभाष्योक्तेः / सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः इति वाक्यशेषाच्च / अथवा ब्राह्मणोऽस्य मुखमासीत् इति वत् शरीरविशिष्टत्वेन ततो जातत्वादिति व्यपदेशः / इग्यणः सम्प्रसारणमित्यत्र काकाज्जातः काकः श्येनाज्जातः श्येनः एवं संप्रसारणाज्जातः सम्प्रसारण इति महाभाष्योक्तः। सन्मूलाः सोम्येमाः सर्वाः प्रजा इति वाक्यशेषाच्च / अथवा 'धान्यमसि धिनुहिदेवान्' 'इत्यत्र तण्डुले धान्यशब्दबत तदधीनस्यात् तद्वयपदेशः। प्राण हि सोम्य मन' इति वाक्यशेष जीवस्येश्वराधीनत्वोक्तेः यदधीना यस्य सत्ता तत्तदित्येव भण्यते इति महाभारतोक्तश्च / अथवा अतिदेशोऽयं तद्वतत्वमसीत्यर्थः। बहुगणेत्यादिसूत्रे वहुगणवतुडतयः सङख्यावद्भवन्ति। अन्तरेणापि वति अतिदेशोऽवगम्यते इति महाभाष्योक्तश्च। एवं च सत्येकस्मिन्नेव पदे लक्षणेति / रामाजमतानुवादः चिरन्तनदासस्तु शरीरबाचिनां देवमनुष्यादिशब्दानां शरीरिपर्यन्तत्वदर्शनात, जोवस्य यस्यात्मा शरोरं इत्यादिश्रुत्या ईश्वरशरीरत्वात् तत्त्वमसीति ब्यपदेशः शरीरशरीरिभावनिबन्धन इत्याह / उपासना परमिति केचित् / तन्न। त्वमित्यत आह--न च भेद एवेति / संसर्गत्वाभावादिति / संसर्गस्व संसर्गिभेद मानाधिकरणत्वनियमात् तद्रहितस्य संसर्गत्वाभावादित्यर्थः। परोत्प्रेक्षितां परिशेषासिद्धिमनुवदति--अत्राहेति। तदाश्रिते तद्वयपदेशः क्व दृष्ट इति वीक्षायामाह---समर्थ इति जीवस्य ब्रह्माश्रितत्वे किं मानं येन जीवेन व्यपदेशः स्यात् इत्यत आह---सर्वा इति / एवमुत्तरत्रापि द्रष्टव्यम् / अन्तरेगापि वतिमिति / संख्यावदिति प्रत्ययं विनापीत्यर्थः एकस्मिन्नेवेत्यर्थः / तत्पद एव सर्वत्राश्रितत्वाद्यर्थलक्षणेत्यर्थः / जीवपरयोः शरीरशरीरिभावनिबन्धनं सामानाधिकरण्यं त्वंपदार्थस्य जीवरूपशरीरयुक्तान्तर्यामिणः तत्पदार्थेन परमात्मनाऽभेदबोधनादिति श्वेतमृक्छृङ्गधारिमतं तदप्यनुवदति---चिरन्तनेति / तदाश्रितत्वात् तद्व्यपदेश इत्यत्र कि वस्तुतस्तदाश्रयत्वमभिप्रेतं उत कल्पितं ? नाद्यः जीवपराभेदस्य श्रतिस्मृतिन्यायशतसिद्धतया जीवस्य वस्तुतः पराश्रितत्वायोगात् / नापि द्वितीयः कल्पितस्य तत्त्वावेदकतिप्रमेयत्वायोगात् इत्युपपादयति---तन्न विधेरित्यादिना / आरामपरिमाणेति / तदत्रस्य प्रत्यक्षतया मध्यमपरि

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96