Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ चतुर्थः परिच्छेदः विधेःसमर्थपदाधितत्ववत जीवस्य ब्रह्माश्रितत्वस्य वास्तवस्यासंभवात् / औपाधिको हि जीवपरयोर्मेद: "यथाह्ययं ज्योतिरात्मा विवस्वान् अपोभिन्ना बहुधैकोऽनुगच्छन् / उपाधिना क्रियते भेदरूपः देव. क्षेत्रष्वेवमजोऽयमात्मा"एकोदेवः सर्वभूतेषु गूढः इत्यादिश्रुतेः / " स एष इह प्रविष्ट" इति परस्यैव जीवभावेनानुप्रवेशश्रुतेश्च / अनुप्रविष्टोऽन्तर्याभ्येव न जीवः इति चेन्न, “सबा एष भतानि इन्द्रियाणि षिराज देवताः कोशांश्च सृष्ट्वा प्रविश्य अनूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवायमात्मा सन्म त्रो नित्यः" इत्यादिश्रुतिषु अनुप्रविष्टस्य मूढत्वव्यवहर्तृत्वादिश्रववत् / न चान्तर्यामो मूढः व्यवहर्ता वा। अनेन जीवेनेत्यनुप्रविष्टे जीवशब्दप्रयोगाच्च / जीवाणुत्वनि रासः क्रिञ्च न तावदणुजीवः। 'एष महानज आत्मा' इति श्रुतिविरोधात् आरामपरिमाणश्रुतिविरोधाच्च / अणुत्वे प्रत्यक्षत्चानुपपत्तेः। विरुद्धदेशे अपर्यायोत्पत्र सुखदुःखकृति द्वयायोगाच्च इत्युक्तम् / नापि सर्वगतः / अहमनुभवगोचरस्य सर्वगतत्वे प्रमाणाभावात् / अनुमानानां धर्मिग्राहकप्रमाणबाधात् / श्रुतेश्च ब्रह्मात्मनव तस्य विभुत्वं प्रतीयते / अतोऽहमनुभवात् मध्यमपरिमाणो जीवः तस्य च स्वाभाविकत्वे कार्यत्वप्रसङ्गात कृतहानादिप्रसङ्गात विधिमोक्षशास्त्रानध्ययनप्रसङ्गाच्च औपाधिकमेववानेव परांशो जीवः। स च भेदोऽपारमाथिकः तदभिन्ने तभेदस्य तत्समानसत्त्वस्यायोगात / तथा च कल्पितभेदवान जीवः तेन तदाश्रितत्वमपि कल्पितमेवेति तत्परो वेदोऽप्रमाणं स्यात् बाधितार्थकत्वात् / सवायतनाः सत्प्रतिष्ठा इति वाक्येनैव तत्सिद्धेरितरवैयर्थ्यप्रसङ्गाच्च / जीवजन्मनिरास: एतेन तज्जातत्वमपि व्याख्यातम् / जीवस्य स्वरूपेणोत्पत्त्ययोगात् / माया तत्तुल्यपरिमागबोधिश्रुतिविरुद्धपणुत्वमित्यर्थः। अपर्यायेति छेदः। अवयवभेदेन युगपदुत्पन्नयोः सुत्रदुःखयोः वृत्तिद्वयस्य चायोगादिश्यर्थः / धर्मिग्राहकप्रमाणबाध दिति / अहमिहै वेति धर्मिग्राहकाहप्रत्ययेन परिच्छिन्नत्वग्रहादित्यर्थः। किं च सदायतना इत्यत्रव स्पष्टं सद्रपब्रह्माश्रितत्वाभिधानात् तदर्थकतत्त्वमादिवाक्यं व्यर्थं स्यात् / न च तस्यैव पुनरभ्यासः, तत्त्वमसीति बहुधाऽभेदाभ्यासवदिति वाच्यम् तत्रान्याशङ्कानिरसनपूर्वकाभ्याससंभवात् न तथाऽत्रेत्यभिप्रेत्याह--- सदायतना इति / तज्जातत्वात्तद्वयपदेश इत्यत्रापि उक्तदोषमतिदिशति एतेनेति /

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96