Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ चतुर्थः परिच्छेदः कृतियममरेन्द्रोन्निद्रमौलिप्रभौघप्रमुदितपदपीठश्रीपतेरेव विष्णोः / न मम निमेषेप्यप्रभोरक्षताऽस्तु स्फुटबहुविकृतिर्वा नात्र मे किञ्चिदेनः // 2 // कियदीप परिपीतं यत् कदाचित् प्रसङ्गात् विमलपदसरोजक्षालनाम्भो गुरोर्नः / शमयति हृदि तापं वर्धयत्यात्मविद्या जलनिधिमपि विष्णो भक्तिमेतद्विधत्ते // 3 // अहं कियानेष गुरोः प्रसादः क्ववाऽमरेन्द्रर्मनसायलभ्यः / प्रसादिने देववरे मुरारौ न किञ्चिदप्राप्यमिहेति मन्ये / इति श्रीमतरमहंसपरिव्राजकाचार्यभगवज्जगन्नाथाश्रमशिष्यश्रीमन्नृसिंहाश्रमकृतौ अद्वैतदीपिकायां चतुर्थः परिच्छेदः अस्मिन् ग्रन्थे शब्दतोऽर्थतो वा दोषप्रतीतावपि ( तेरपि) न मय्यपराधो मन्तव्य ईश्वरस्यैवात्र स्वतन्त्रतया तत्कर्तृत्वाञ्च / मया च तत्प्रेरणयैव प्रतिपदं प्रवृत्तत्वात् / ततश्चैतस्य स्तुत्या निन्दया वा न मम हर्षादिरिति शमं दर्शयति-कृतिरियमिति / निर्मलप्रकाशत्वमुन्निद्रपदार्थः। . अमरेन्द्राणामुन्निद्रमौलिप्रभायाः ओघः प्रमुदितः नमस्कारकाले तिरस्कृतो येन तादृशं पदपीठं यस्य तस्य' श्रीपतेरित्यर्थः। अप्रभोः असमर्थस्य अक्षता निर्दोषा स्फुटबहुविकृतिः स्वस्वानेकदोषयुक्ता वाऽस्तु / अत्र मे न किञ्चिदेनः अवद्यमित्यर्थः / नानावादिनिराकरणेन स्वमतनिष्कर्षहेतोः ग्रन्थस्य गुर्वनुग्रहादेव समाप्तत्वात् गुरुमभिपूजयति-कियदपीति / ईषदपीत्यर्थः। तदपि न श्रद्धया किन्तु निमित्तान्तरादित्याह-प्रसंगादिति / यदंभः परिपीतं एतच्छमयतीत्यन्वयः / अन्येषां किमित्येतादृशगुर्वनुग्रहो नेति शङ्का निराकुर्वन् तस्येश्वरप्रसादलभ्यतयाऽतिदुर्लभतामाहअहमिति / इति श्रीमत्परमहंस परिव्राजकाचार्यभगवन्नृसिंहाश्रमपूज्यपादशिष्य नारायणाश्रमविरचिते अद्वैतदीपिकाविवरशे आनन्ददीपिकाख्यः चतुर्थः परिच्छेद

Page Navigation
1 ... 90 91 92 93 94 95 96