Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 57 चतुर्थः परिच्छेदः ननु भेदश्रुतेरनुवादत्वान्न स्वार्थतात्पर्यम् 'नान्योऽतोऽस्ति' इति श्रुतिश्च जीवपरभेदं निषेधतीत्युक्तम् / सत्यं / जीवपरभेदनिषेधश्रुतिन्याययोस्तदभेदप्रमापकवाक्यशेषत्वात् / अन्यथा सामान्यतो हितसाधनताबोधकोत्पत्तिविधेरेवार्थवादोपस्थापितस्वर्गमादाय पर्यवसानसंभवात् अधिकारविधिमात्रं निरर्थक स्यात् तत्रचंदंपर्यभेदे प्रकृतेऽपि तथेत्यलमनया चर्चया। तदुक्तं भगवता नारदेन। तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम् / ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत् // इति / अत एवंतस्य स्वर्गकामाधिकारवाक्यस्येव महावाक्यत्वम् / नाप्यप्रयोजकत्वं एकवानुद्रष्टव्यमित्याद्यखण्डार्थतात्पर्यग्राहकश्रुतिविरोधप्रसङ्गस्य बिपक्षे बाधकतर्कस्य सत्वात् / चैतन्यातिरिक्तस्य मिथ्यात्वेन शास्त्रप्रतिपाद्यत्वायोगाच्च / किञ्चाखण्डार्थत्वाभावे वाक्यं निविषयं स्यात् / समानाधिकरणवाक्यस्य तादात्म्यातिरिक्तसंसर्गबोधेऽसमर्थत्वात्। जोवपरयोश्च गुणगुण्यादिवत् भिन्नत्वे सति अभिन्नसत्ताकत्वलक्षणतादात्म्यस्य भेदमिथ्यात्वं विनाऽसम्भवात् / मिथ्याभेदस्य प्रमाणशास्त्राप्रतिपाद्यत्वात् / जीवपरयोः गुणगुण्यादिभावाभावाच्च / भेदश्रुतेदुर्बलत्वान् नाद्वैतश्रुतिसंकोचकतेति शङ्कते-ननु भेदेति / भेदश्रुतेरतत्परत्वमङ्गीकृत्य तन्निषेधकश्रुतिन्यायानां महावाक्यशेषतया तदभावे न भेदापवादसिद्धिरित्याह---सामति / शेषिविषयन्यायानुगृहीतावान्तरवाक्येनैव महावाक्याक्षेपेऽतिप्रसङ्गमाह--अन्ययेति / उत्पत्तिवाक्ये अभीष्टं भावयेदिति विध्यर्थत्वात् तहि साधनतावगतिः गुरुमतेऽपि तत्रैव विश्वजिन्न्यायेनाधिकारः कल्पयितुं शक्य' इति कि स्वर्गकामादिवाक्येनेत्यर्थः। अधिकारवाक्यश्रवणादेवोत्पत्तिवाक्यानां कर्मस्वरूपप्रतिपत्तिमात्रपरता तादर्सेन कल्प्यत इत्याशङ्क्याह--तत्र चेति / महावाक्योत्थज्ञानादेव पुरुषार्थ इत्यत्र वृहन्नारदीयवचनमुदाहरति---तदुक्तमिति / तत्त्वमादिवाक्यस्य महावाक्यत्वं न पारिभाषिकं तस्यैव फलवत्त्वेनान्यशेषित्बादित्याह----अत एवेति / महावाक्यस्याखण्डार्थत्वे बाधकाभात्रादुक्तहेतोरप्रयोजकतेत्याशय निराकरोति--- नाप्यप्रयोजकत्वमित्यादिना / किञ्चात्र गामानयेत्यादाविव तादात्म्यातिरिक्तसंसर्गस्य शुक्लः पट इत्यादाविव तादात्म्यरूपस्यार्थान्तरस्यासंभवात् अखण्डार्थत्वमावश्यकमित्याह--किञ्चेत्यादिना। तथाप्यभेदस्यापि संसर्गत्वात् कथं तद्विषयस्याखण्डार्थ

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96