Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतदीपिकायाम् भवम् / अद्वैतवाक्याद्धि ब्रह्मणो जीवाभेदो न सिद्धयति घटादेरिव जीवस्वरूपस्योप.नापि तन्निश्चयसंभवात्। न च निष्प्रपञ्चस्वप्रकाशात्मना निर्णीतजीवस्वरूपस्य धो न संभवतीति वाच्यम् / तन्निर्णायकवाक्यस्य महावाक्यशेषत्वेन तेन विना तदसिद्धः / . तथाहि ---न तावदतार्थसिद्धये तन्निर्णय; तस्योक्तविधयाऽन्यथापि संभवात नापि निष्प्रपञ्चस्वप्रकाशात्मतत्त्वं स्वत एवं प्रतिपाद्यम उपयोगाभावात् / प्रयोजनस्यब्रह्मविदाप्नोति परं तरतिशोकमात्मविदिति श्रुतिद्वयपर्यालोचनया प्रिपञ्चात्मब्रह्माभेदनिश्चयाधीनत्वात्। वाक्यदयस्य स्वस्वार्थे पर्यवसन्नत्वेन ततस्तदभेदासिद्धश्च / अतो महावाक्यमेव अभेदयोग्यतासिद्धयर्थं निष्प्रपञ्चात्मतत्वमपेक्षत इति तन्नि गायकवाक्यं महावाक्यशेषमेव / न च जीवस्वरूपस्य बाधे बन्धमोक्षयोयधिकरण्यं स्यादिति तस्य मुक्तिकालीनत्वे निर्णीते अद्वेत. श्रुत्या तदभेदः सिद्धयतीति वाच्यम् / जीवस्वरूपविषयाणां न्यायानां तद्विषयवाक्यशेषतयाऽतच्छेषत्वात् / ___ एवं सत्यादिवाक्यमपि महावाक्पशेषमेव तावन्मात्र त पुरुषार्था सिद्धः / तस्योदाहृतश्रुतिद्वयपर्यालोचनया प्रत्यगभिन्नब्रह्मज्ञानाधीनत्वात् / तदभेदस्य महावाक्यं विनाऽप्राप्तेः। महावाक्यं विना जीवपरभेदश्रुतिविरोधेनाद्वैतवाक्यस्य निरङ्कुशाद्वैततात्पर्यकल्पनायोगाच्च / अशनायादिराहित्यं निष्प्रपञ्चपदार्थः। तदसिद्धे रेति / त्वंपदार्थस्वरूपविशेषनिर्णयासिद्धरित्यर्थः / स्वत एवेति / स्वातन्त्र्येणैव पुरुषार्थहेतुत्वेनेत्यर्थः / / तरति शोकमात्मविदिति श्रवणात् अनुपयोगोऽसि : इत्याशङ्कयाह.. प्रयोजनस्येति / फलजनकं प्रतिपन्नाभेदज्ञानं परस्परैकवाक्यतापन्नावान्तरवाक्या पाभव भविष्यतीत्याशङ्क्याह--बारदयस्पेति। एकैकस्वार्थमात्रे पर्यवसन्नाभिधानत्वेनेतराकाङ्क्षाभावात् तेनैकवाक्यतानुपपत्तेः न रक्तपटन्यायात् एकवाक ता। तद्विशेषणविशेष्याद्यभावात् / न हि घटो भवति पटो भवति इति वाक्ययोरपि रक्तपटन्यायादेकवाक्यता भवति तद्वत् / न चैकप्रयोजनवशात् परस्परान्वयइतिवाच्यम् / प्रयोजनस्याभेदबोधायत्ततया तहेतुवाक्यशेषतया प्रयोजनपर्यवसायित्वसंभवेन परस्परान्वयकल्पनाऽयोगः।नहि बह्निरस्ति वायुरस्तीति वाक्ययोः प्रयोजत वशादेकवाक्यतादृष्टति भावः। त्वंपदार्थनिर्णयस्य स्वत उपयोगाभावसाधनफलमाह-अत इति / एवमपि जीवस्वरूपविषयन्यायानुगृहीताद्वैतवाक्यादेवाभेदबोधसिद्धेः किं महावाक्येनेत्याशझ्याह--- न च जीवेति / तद्विषयवाक्येति / जीवस्वरूपविषयकं यद्वाक्यं योयं विज्ञानमयः (प्राणेष) इत्यादि तच्छेषतया तत्पदार्थवाक्यशेषत्वादित्यर्थः। तत्पदार्थमात्रज्ञानादपि प्रयोजनाभावात् तद्वाक्यमपि महावाक्याङ्गमित्याह--एवमित्यादिना। ब्रह्मविदाप्तोतिपरं तरतिशोकमात्मवित् श्रुतिद्वयपदेनोच्यते।

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96