Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 54 सटोकाद्वैतदीपिकायाम कालीनत्वाभावात् / अतो लणयाऽभेदमा वाक्यार्थ इत्यखण्डार्थता। अभेदश्च न संसर्ग इत्युक्तम . पदार्थानधिक विषयत्वेऽपि वाक्यस्य णितरोत्या तत्र सत्तानिश्चयरूपा धीः भेदभ्रमनिवृत्तिश्वोपपद्यते। एवं च यत्र धर्मस्य नाभेदावच्छेदकत्वं तत्र सर्वत्रापि न विशिष्टाभेवः / न चैवं सामानाधिकरणपविरोधः भिन्नप्रति निमित्तानामेकवृत्तित्वस्य अखण्डार्थत्वेऽप्यनपायात् प्रत्युत तत्रैव तन्मुख्यम् / अन्यत्राभेदस्यकपदार्थरूपस्य मुख्यस्यासंभवात् / यत्तु नवीनोक्तम् -- यद्यपि विशिष्ट पदार्थान्तरमित्यावयोमते समं तथापि धूमाग्न्यो देऽपि धूनवानग्निमानिति सामानाधिकरण्यधोबलेन विशिष्टयोरभेदो ऽप्यस्तीति / सत्यं विशिष्टं विशेष्यादन्यदेव अन्यथा देवदत्तोऽयमिदानी दण्डी न भवतीति प्रतीतिविरोधात् / न च सा दण्डाभावविषयव। तदन्योन्याभावस्य तद्विषयत्वे तद्विशिष्टकालेऽपि तद्धीप्रसङ्गात् / अत्यन्ताभावस्य भेदबुद्धय. विषयत्वात् / कदाचित् दण्डसंबन्धाश्रये तव तदत्यन्ताभावायोगाच्च / कालभेदेन एकस्मिन् तयोरविरोध इति चेन्न / तदाप्याश्रयभेदाभावे तदयोगात् / तद्भदाभ्युपगमे चागतमेव विशिष्टस्यान्यत्वम् / मिति न वाक्यं व्यर्थमित्याह-पदार्थानधिकेति / न चैवं दण्ड्ययमित्यादावपि विशिष्टाभेदो न स्यादित्याशङ्क्येष्टापत्तिमाह--एवंचेति / अन्यत्रेति / तत्तादिविशिष्टाभिधाने तयोर्भेदान्नैकत्वमित्यर्थः। विशिष्टयोरभेदस्यःपि संभवान्नाखण्डार्थत्वमिति परोक्तमनुवदति-यत्त्विति / स्वरूपेणैवाभेदो न विशिष्टाकारेणेति वक्तुं तेन रूपेण भेदं साधयति-सत्यमित दिना / तद्विशिष्टकालेऽीति / देवदते दण्डवैशिष्टयसमयेऽपि तस्मिन् दण्डान्योन्याभावसत्वात् अयं न दण्डीति धीः स्यादित्यर्थः। भेदबुद्धय विषयत्वादिति / अयं 'अनुको न' इति बुद्धयविषयत्वादित्यर्थः / आश्रयभेदाभाव हति / अभावाधिकरणयोः स्वरूपस्यैव संबन्धत्वात् / प्रतियोगिभेदाभावे बाधकान्तरमाह-एवमिति / तद्वति विशेष्याश्रये तदभावः विशिष्टाभावः। अभावस्व प्रतियोगितावच्छेदकावच्छिन्नेन विरोध: न प्रतियोगिमात्रणेत्याशक्य गौरवान्मैवमित्याह--न च तदेति / प्रतियोगिमात्रस्य विशिष्टप्रतियोग्यनन्यत्वे उक्तव्यवस्थाऽसंभवश्चेत्याह--विशेष्येति / कथं तहि देवदत्ते दण्ड्यभेदधीरित्यत आह--स चेति / अत एबेति। विशिष्टस्वरूपयोरभेदस्यापि संभवात् तदात्मना धूमाग्निविशिष्टोरप्यभेदेन संभवादित्यर्थः / नन्वेवं सोऽयं देवदत्त इत्यत्रापि धूमवानग्निमानितिवदन्वयः किं न स्यादिति नेत्याह-- तथापीति / वस्तुतस्तु धूमवान् अग्निमानित्यादावपि धूमादेरुपाधित्वमेव न तु

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96