Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 52 सटीकाद्वैतदीपिकाया तत्तादेरतीतत्वेऽपि यदन्विततया ज्ञात एव तात्पर्यविषयीभूतेतरान्वयधीः तद्विशेषणं इत्येवंरू ।स्य विशेषणत्वस्य संभवात्। न च विधेयान्वयि विशेषणं शब्दो नित्य इत्यादौ शब्दत्वादावमाप्तः। नापि विधेयान्वयकले सदेव विशेषणं 'दण्डी भविष्यति' दण्ड इतः अस्तीत्यादावव्याप्तेः। नापि विधेयान्वयप्रति गितावच्छेद के प्रत्याय्य व्यावृत्त्यधिकरणता. वच्छेदकं वा अवच्छेदकत्वस्यान्यनानधितिरिक्तदेशकालत्वरूपत्वे तस्य सास्नादिमान गोरित्यादिलक्ष्यतावच्छेदकरूपविशेषणेषु सत्त्वेऽपि गौःशुक्ल इत्यादावव्याप्तिः यद्वत्तया ज्ञात एव वदत्वमधी: तत्वं चेदवच्छेदकत्वं तदिहाप्यस्ति / नहि तत्तावत्वे. नाजाते इदन्त्वधीः अनिदंव्यावृत्तधीर्वा। तस्मादतीनमपि यदन्विततयाज्ञात एवेत्याधुक्तलक्षणमयुक्तं चेत् विशेषणमेव तदयुक्तं चेत बर्तमानमपि अविशेषणमेवेति। सोऽयंदेवदत्त इत्यादिरर्थः उच्यते-सोऽयमिति पदवयं तत्तदन्ते एकवृत्ती इति बोधयति, उत सीऽयमित्येव प्रतीत्याकारः, वाक्यतात्पर्यमेकबृत्तित्व इति / नाद्यः, तयोः पदार्थोपसर्जन अन्यथा तत्कालादिविशिष्ट एतत्कालादिवैशिष्टयायोगादिति भावः एवमुत्ररत्रापि द्रष्टव्यम् / कल्पद्वयेऽपि साधारणं दोषमाह-समानाधिकरणेति / किञ्चिद्विशिष्टे किञ्चिद्वैशिष्टयमात्रविधाने गवानयनादिवाक्यवत् वैयधिकरण्यं स्यात् / अतः सामानाधिकरण्यादभेदपरत्वमास्थेयमित्यर्थः / विशिष्टयोरभेदोप्यसंभवीत्याह-विशिष्टस्येति / तभेदादिति / तयोविशिष्टयोर्भेदादित्यर्थः / न चाद्यपक्षे विशेष्यमात्रस्याभेदोऽस्तीति वाच्यम् / तथापि विशिष्टवाचकपदाभ्यां लक्षणां विना तन्मात्राभेदवोधायोगात् / नहि पदार्थंकदेशेन पदार्थक.देशस्य वाक्यादन्वयो भवतीति भावः। पञ्चमं निरस्यतिअतएवेति / इदानी तत्कालाभेदप्रसङ्गादेवेत्यर्थः / फलितमाह-तस्मादिति / नवीनप्रलापनिरासेन उक्तं द्रढयितुमनुवदति - यात्त्वित्यादिन्ग / नत्वित्यस्याखण्डार्थत्वमित्यनेनान्वयः तदन्वयस्तेन विशिष्टेनान्वयः, तत्तदन्तयोः असमानकालीनत्वेऽपि तद्विशिष्टयोरक्यं संभवतीति ववतुं तयोविशेषणत्वमुपपादयति--किञ्चेत्यादिना / दण्डीभविष्यतीत्यादिना प्रागभावादेविधेयत्वात् तत्समये दण्डाभावादव्याप्तिरित्यर्थः / प्रत्याय्या-प्रत्यायितव्या या ब्यावृत्तिः इतरभेदः तदधिकरणतावच्छेदकं वा विशेषणं नेत्यन्वयः। गौर शक्ल इत्यादिष्विति / तत्र शौक्लयस्य गौत्वान्यूनानधिकदेशादिमत्वाभावादित्यर्थः / वर्तमानमपीति / दण्डादिकमित्यर्थः / विकल्पासहेत्वान्नैतदपीत्याह - उच्यत इत्यादिना / वाक्यतात्पर्यमित्यपि द्वितीयशेषमेव / सिद्धान्तवैलक्षण्यायोक्तं पदार्थोपरञ्नतयेति / तदिदंशब्दयोः तत्तादिविशिष्टे सामर्थ्यग्रहात् ताश्यां तत्तादेःप्राधा

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96