Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 80
________________ 51 चतुर्थः परिच्छेदः कत्वमात्रप्रामाण्यस्य विषभुङ्वेत्यादावपि सत्त्वात् / तात्पर्यविषयीभूते प्रामाण्यानुपपत्तिस्तु तात्पर्यानुपपत्तिरेव / तस्मात् पदाथंशोधकवाक्यमखण्डार्थनिष्ठम्।। ___ सगुणवाक्यं तु संसर्गनिष्ठ, तेन विनोपासनासिद्धः तस्यापि परमतात्पर्य ब्रह्मण्येव ब्रह्मसाक्षात्कारादन्यत्र परमपुरुषार्थासिद्धेरिति / तत्त्व दिवाक्यानामखण्डार्थतानि० एवं तत्त्वमादिवाक्यमप्यखण्डार्थम् अकार्यकारणद्रव्यबिषयसमानाधिकरणवाक्यत्वात सोऽयं देवदत्त इति वाक्यवत् / औपाधिकभेदवत्पदार्थसमानाधिकरणवाक्यत्वाद्वा महत्खं कुंभखं इतिवाक्यवत् / न चासिद्धिः, जीवपरयोः कार्यकारणत्वाभावान गुणाधतिरिक्तत्वाच्च / नापि तयोः स्वाभाविको भेद इत्युक्तम् / नापि विरोधः साध्याभावव्याप्यत्वस्याभावात् / नाप्यनकान्तिक: विपक्षावृत्तः / नापि वाक्यत्वादिना सत्प्रतिपक्षता, अप्रयोजकत्वात्तस्य / प्रकृष्टप्रकाशादिवाक्ये व्यभिचाराच्च / नापि बाधः, जीवपराभेदस्य निरूषितत्वात् / मापि दृष्टान्तस्य साध्यवैकल्यम् / तदेतत्पदद्वयलक्षितदेवदत्तक्यस्य तेन प्रतिपादनात् / तथाहि-- न तावत् तद्वेशकालविशिष्टस्यतोमवशिष्ट्यं वाक्येन प्रतिपाते, किच भावादित्यर्थः। परमप्रकृत उपसंहरति--तस्लादिति / ननु सत्यकामः सत्यसंकल्प इत्यादीनां तत्तत्सदार्थविषयाणां लक्षणयाऽखण्डपरत्वे उपासनाविधिवयर्थ्यमित्याशक्य तत्रावान्तरतात्पर्यात् न विरोध इत्याह-सगुणेति / इदानीं सर्वशेषिभूतमहावाक्यानामप्यखण्डार्थत्वं साधयति-एव मिति / परस्पर कार्यकारणभावरहिते ये द्रव्ये तद्विषयसमानाधिकरणवाक्यत्वादित्यर्थः मृद्धटः नीलमुत्पलं राज्ञः पुरुष इत्यादिवाक्येषु व्यभिचारवारणाय यथाक्रमं विशेषणानि / हेत्वन्तरमाह--औपाधिकेति / औपाधिकभेववन्तो यो पदार्थों तद्विषयसमानाधिकरणवाक्यत्वादित्यर्थः / अत्र घटाकाशः शरावावच्छिन्नवाक्याद्भिद्यते इति वाक्ये व्यभिचारवारणाय सामानाधिकरण्यपदम् / पूर्वोपपादितपर्यालोचनयाऽत्रासिद्धिः स्यादिति शङ्कानवकाश इत्याह-न चासिद्धिरित्यादिना / न च प्रत्यग्ब्रह्मणोरभेदेन द्वित्वाभावादसिद्धिरिति वाच्यम् / कल्पितभेदादपि द्वित्वोपपत्तेः। अत एव न साधनवैकल्यमपीति भावः / सोऽयमित्यत्र तत्तादिवशिष्टयप्रतीतेः साध्यवेकल्यमित्याशक्याह-नापि दृष्टान्तस्ये ते / मुख्यार्थान्वयेऽनुपपत्त्यभावात् न तदेतत्पदयोः लक्षणेत्याशङ्क्याह-तथाहीति / किं तद्देशकाल विशिष्टानुवादेन तस्यैतद्देशादिवैशिष्टयं प्रतिपाद्यते, उत एतद्देशादिविशिष्टस्य तद्देशादिवैशिष्ट्य, किं वा तदेतद्देशकालादिविशिष्टयोदभेदः अथवा तत्कालोपलक्षितस्यैतत्कालादिविशिष्टाभेदः आहो एतत्कालोपलक्षितस्य तत्कालविशिष्टाभेदः इति विकल्पानभिप्रेत्य क्रमेण दूषयति-न तावदित्यादिना। तद्देशकाल प्रसंगादिति /

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96