Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 78
________________ चतुर्थः परिच्छेदः अ ,ण्डाथत्वे वस्त्वसिद्धिः (पू०) यत्तु वाक्यार्थस्यकत्वे उद्देश्यविधेयभावाभावत ब्रह्मस्वरूपासिद्धिरिति / तन्न / यच्छिद्रं तत् खं इत्यादिवत् भेदभ्रमदशायां यत् सत्ज्ञानमानन्दश्च तद्ब्रह्मेति तद्भावस्य सत्त्वात् / तावतैव ब्रह्मस्वरूपवुभत्साशान्तेः संभवात् / न च सर्वपदेज्वेकस्मिन् वाक्ये ब्रह्मलक्षणानुपपतिः लाक्षणिकपदस्यान्त्र अन्व ग्बोधजनकत्ववत् प्रकृतेप्यभेदबोधकत्वोपपतेः / न चान्यत्र सर्वपदलक्षणाऽदृष्टेति सा दुष्टा / एकपद. लक्षणाया अप्यन्यत्रादर्शनात गङ्गायां घोष इत्यत्राभावप्रसङ्गात। अनुपपत्तिश्च तुल्या। विषंभुङ्क्षवेत्यत्र दृष्टत्वाच्च / यत्स्वर्वाचीनः प्रकृतात् शत्रुगहभोजनात् विषभक्षणस्येष्टसाधनत्वोक्त्या तद्धोजनस्यानिष्टसाधनताऽऽक्षिप्यते / न तु वाक्येनाकर्तव्यता लक्ष्यते। यद्वा तत्र विषशब्देन द्विषवदन्नं लक्ष्यते विधिप्रत्ययेन च निषंधो लक्ष्यते भुजिधातुर्मुख्य एवेति न सर्वपदलक्षणा / अथवा अयमिदानी महयं क्रुद्धः आप्तत्वे सति प्रमाणविरुद्ध कर्तब्यताभिधायित्वात् / क्रोधश्चात्र सन्निहितभोजनादेव मन्निहितहेतुत्यागे. नादृष्टकल्पनायोगात् / अती न मयेदं कार्यनित्यनुमितिरेवात्र मानमिति / विषंभुङ्गश्चेत्यादिषु सर्वपवल क्षणाखण्डनस्य दूषणम् तदसत् / तत्र न तावत् आक्षेपात् भोजननिवृत्तिसिद्धिः आप्तोक्तत्वेन शक्य' लक्षकस्याप्यनुभावकत्वोपपादनात् मैवमित्याह-न च सर्वेत्यादिना / सर्वपदलक्षणायाः अन्यत्रादृष्ट्या अननुभावकत्वात् सर्वपदानां लक्षकत्वे वाक्यार्थबोधानुपपत्तेः साऽनुपपन्नेत्याशङ्क्याह-न चान्यत्रेति / अन्यत्रादर्शनादिति / गङ्गायां याद इत्यादौ गङ्गापदलक्षणाऽदर्शनादित्यर्थः / गङ्गायां घोषाधिकरणत्वानुपपत्त्या तस्य लक्षणावश्यिकी चेत् प्रकृतेपि अखण्डतात्पर्यानुपपत्त्या सर्वपदलक्षणाऽवश्यिकीत्यभिप्रेत्याहअनुपपत्तिश्चेति / मञ्चाः क्रोशन्तीत्यादौ एकपदलक्षणा दृष्टेत्याशक्य तर्हि अनेकपदलक्षणापि दृष्टेत्याह-विषमिति / विष भुंझ्वेत्यत्रापि न सर्वपदलक्षणातत्र विष भोजनस्यवाभिधानात् अर्थादनुमानाद्वाशत्रुगृहभोजनेऽनिष्टसाधनताप्रमितेः तस्याः शाब्दत्वेऽपि भुङ्क्षवत्यत्र प्रकृतिर्मुख्यवेति नवीनोक्तमनूद्यापवदति-यत्त्वित्यादिना। .. . किं वाक्यस्य विशिष्टार्थपरत्वाभावबोधदशायां आक्षेपः, तत्परत्वबोधदशायां वा? नाद्यः आप्तवाक्यत्वेन निश्चिते नरर्थक्यबुद्धयनुदयादित्याह-आप्तोक्तत्वेनेति / तबुद्धिमभ्युपेत्याप्याह-तत इति / न हि शुकादिवाक्यतुल्यतया ज्ञाताद्वाक्यादाक्षेपावतार इत्यर्थः / नन्वाप्तस्य सतः प्रमाणविरुद्धार्थोक्त्यन्यथानुपपत्त्यवार्थान्तरं कल्प्यते / शुकादिवाक्य तु नैवमित्याशङ्ख्य लक्षणाबीजानुपपत्त्यैव अर्थान्तरसिद्धौ गङ्गायां घोष इत्यादा

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96