Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ चतुर्थः परिच्छेदः अखण्डार्थत्वे शाब्दबोधकारणानांआकाशादीनामनुपपत्तिशङ्का अर्थकार्थत्वे आकाङ्क्षाद्यभावात् वाक्यत्वानुपपत्तिः / तथाहि--अभिधानापर्यवसानमाकाङ्क्षा। येनविना यस्य पदस्य स्वार्थान्वयाननुभावकत्वं तदपर्यवसानम् / अन्वयबाधाभावो योग्यता। अन्वयप्रतियोग्युपस्थितिरासत्तिः। अभेद. वाक्यार्थे च अन्वयाभावादाकाङ्क्षाद्यभावः इति / अखण्डाङ्गिीकारेपि आकाङ्क्षाद्य पपत्तिरूिपणम् मैवम् / तात्पर्यगोवरस्यैवात्रान्वयपदेन विवक्षितत्वात् / आसत्तिश्च पदाथोंपस्थितिः / न चैवमपि सत्यपदलक्ष्यतावन्मात्रत्वाद्वाक्यार्थस्य पदान्तरं विनाऽननुभावकत्वं नास्तीति वाच्यम् / पदत्वेन स्मृतिहेतोः पदान्तरेण विनाऽनुभवाजनकत्वात् / तदाहुः पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते / इति / विनिगमकाभावाच्च / ज्ञानादिपदसमभिव्याहारं विना सत्यादिपदानामर्थविशेष लक्षणाभावान वाक्यार्थलाभोऽपि। न च पदार्थ वाक्यस्य तात्पर्य नास्तीति वाच्यम् / यतो न पदार्थातिरिक्तत्वं तात्पर्यगोचरत्वे प्रयोजकं वायोः क्षेपिष्ठत्वेन, विषस्य भक्षणेन संसर्गे तदभावात् / तत्कस्य हेतोः ? प्रयोजनवत एव प्रमाणशब्दतात्पर्य स्वार्थान्वयाननुभावकत्वाभावात् शुक्लपदेऽनाकाङ्क्षाप्रसंगात् / ततश्च लाघवात् यस्य पदस्य' येन विना तात्पर्यगोचराननुभावकत्वं इत्येवाकाङ्क्षालक्षणं तथा तात्पर्यगोचरार्थाबाध एव योग्यता / तथा वाक्यार्थप्रतिपत्त्युपायपदाथोंपस्थितिरासत्तिरित्यखण्डपराणामप्याकाङ्क्षादिमत्त्वात् न वाक्यत्वविरोध इत्यभिप्रेत्याह-मैवमिति / सत्यादिपदस्य पदान्तरेण विना तात्पर्यार्थगोचराननुभावकत्वरूपाङ्क्षा नास्त्येव / तत्र एकैकपदलक्ष्यव्यतिरिक्तस्य तात्पर्यविषयस्याभावात् तल्लक्ष्यस्य पदान्तरं विना तेनैवानुभवसंभवात् इत्याशक्य पदमात्रस्य स्मारकत्वात् पदान्तरं विनाऽननुभावकत्वात् मैवमित्याह-न चैवमित्यादिना / तहि सत्यं ब्रह्मेत्येतावतैवानुभवोपपत्तौ किमितरेणेत्यत आह-विनिगमकेति / ननु आकाङ्क्षालक्षणेऽननुभावकत्वं अज्ञापकत्वमेव ततश्चैकस्यैव पदस्य लक्षणया तात्पर्यविषयाऽथस्मारकत्वात् नाकाङ्क्षत्याशक्याह-ज्ञानादीति / एकैकपदप्रयोगे लक्षणवानुपपन्ना / अनुपपत्तिप्रतिसन्धानाभावात् ज्ञानादिपदसमभिव्याहारं विना वाक्यार्थब्रह्मस्वरूपविशेषानवगमेन तस्य मुख्यार्थ संबन्धाप्रतीतेश्च / नाप्येकैकपदलक्ष्यावगमात् ज्ञानाद्यभेदसंशयादिनिवृत्तिः तत्र तस्य सत्तानवधारणात्मकत्वात् / न चानन्तपदादेव ज्ञानाद्यात्मत्वसिद्धेः नेतरापेक्षेति वाच्यम् / ज्ञानादेमिथ्यात्वेऽपि ब्रह्मानन्त्योपपत्तेः / अतो नैकैकपदात् वाक्यार्थब्रह्मसिद्धिरित्यर्थः / ननु पदार्थस्य वाक्यतात्पर्यगोचरत्वमेवानुपपन्नम् येन तत्प्रतिपादने नान्यापेक्षास्यात् इति नेत्याह-न चेति / किं पदार्थातिरिक्तत्वस्य तात्पर्यविषयत्वप्रयोजकत्वात् पदार्थे तात्पर्याभावः किं वा पदार्थत्वस्य तदभावप्रयोजकत्वात् ? नाद्य इत्याह-यत

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96