Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 48 सटीकाद्वैतदीपिकायाम् गोचरत्वात / एवं पदार्थत्वमपि वाक्यतात्पर्याभावे न प्रयोजकं, वाक्यजन्यपदार्थज्ञानेन परमपुरुषार्थलाभे वाक्यार्थ इव तस्मिन्नप्युपक्रमादितात्पर्यस्यावश्यं वक्तव्यस्वात् / अस्ति चात्र सत्यादिवाक्यार्थज्ञानात् सत्याद्यात्मस्वरूपाज्ञाननिवृत्तिः / तेन विना ज्ञानानन्दादिभेदभ्रमानिवृत्तः। एतेन अनु पत्तिप्रतिसन्धानार्थ पदान्तरसमभिव्याहार इत्येतत् सह श्रुतपदानां बोधकत्वव्युत्पत्तिविरुद्धमिति निरस्तम्। घोषादिपदस्येवानुपपत्तिप्रतिसन्धानद्वारा बोधकत्वात / अत एवाखण्डवाक्यार्थे न पदान्तरवैयर्थ्यम् / सत्यादिपदं विनाऽभिप्रेतब्रह्मस्वरूपासिद्धः। वाच्यैकदेशस्यैव चैतन्यादेः घटोऽनित्य इत्यत्रघटस्येव लक्ष्यस्वात् ब्रह्मणः गङ्गापदलक्ष्यतीरस्यागङ्गात्ववत् नाप्रकाशाद्यात्मत्वम् / सत्यादिपदानां निविशेषपरत एतेन ज्ञानादिपदैः सत्यपदवाच्यमेव बोध्यते अन्यद्वा ? आये तद्वयय॑म् द्वितीये सविशेषता इत्यर्वाचीनवचनं निरस्तम् / यस्त्वखण्डवाक्यार्थस्य स्वप्रकाश-. त्वात वेदान्तवाक्यं व्यर्थमित्यर्वाचीनप्रलाप:स स्वप्रकाशेप्यविद्यासभर्थनेनासकृन्निरस्तः। विचारात् प्राक् वाक्यीयं प्रमाणज्ञानं सत्यज्ञानानन्दाद्वितीयब्रह्माभिन्नजीवस्वरूपगोचरमपि सत्तानिश्चयरूपं न भवतीति न विचारादिवयर्थ्यम् / इति / तात्पर्यगोचरत्वप्रयोजकं दर्शयन् द्वितीयमपि निराकरोति-प्रयोजनवत इत्यादिना / प्रयोजनमपि संसर्गताज्ञानादेव भवति न पदार्थज्ञानादित्यत आह-अस्ति चेति / पदार्थज्ञानाधीनप्रयोजनस्य पदमात्रादेव संभवात् वाक्यं व्यर्थमित्याशझ्याह-तेन विनेति / पदान्तरेण विना लक्षणैव नावतरति / तस्यां प्रवृत्तायामपि एकैकस्मात् पदात् सत्यत्वादिविशिष्टवाचकात् तत्तद्विशेष्यमात्रमेव ज्ञायते / तावता च तदभेदाज्ञानसंशयाद्यनिवृत्तेः तन्निवर्तकज्ञानं वाक्यकसाध्यमित्यर्थः। पदान्तरं विना लक्षणा नावतरतीत्यत्र परोक्तचोद्यमनद्य निरस्यति एतेनेति / एवं सत्यादिपदानां परस्पराकाङ्क्षोपपादनात् अन्यतरवैयर्यशङ्का दूरनिरस्तेत्याह-अत एवेति / ___ ब्रह्मणो ज्ञानादिपदलक्ष्यत्वे अज्ञानाद्यात्मत्वापात इत्येतत् भागत्यागलक्षणाभ्युपगमादेव निरस्तमित्याह-वाच्यैकदेशस्येति / लक्ष्यक्यस्य वाक्यार्थत्वोक्तेः नवीनप्रलापोऽपि निरस्त इत्याह-एतेनेति / ज्ञानादिपदलक्ष्यक्यस्यापि स्वप्रकाशत्वात् तत्र वाक्यमसदमित्येतत् प्रागेव निरस्तमित्याह-यस्त्विति / वाक्योत्थाखण्डविषयकज्ञानस्य पुरुषार्थहेतुत्वे तस्य विचारात्प्रागेवोत्पत्तः विचारादिवेयर्थ्यमित्यत आह-विचारादिति। वाक्यार्थे उद्देश्यविधेयभावनियमात् एकपदार्थमात्रे तदसंभवात् कथं तस्य वाक्यार्थत्वमिति चोद्यमनूद्य प्रसिद्धयप्रसिद्धिमात्रापेक्षत्वादुद्देश्यत्वादेः तयोश्च कल्पितभेदेनाप्युपपत्तेः न विरोध इति परिहरति-यत्त्वित्यादिना / लक्ष्ये लक्षणानुपपत्तिरेव बाधिकेत्या

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96