Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटोकावतदीपिकायाम् निरस्तम्। वाक्यशेषादिविरोधात / “यस्मिन् द्योः प्रथिवी चान्तरिक्षमोतं मनः सह प्राणश्च सर्वैः / तमेवैकं जानथ आत्मानं अन्या वाचो विमुञ्चथेति यच्छब्दनिदिष्टात्मैव ज्ञातव्यः नान्य इति विशेषप्रतिपादनाच्च। शुभ्वादिप्रपञ्चस्याधेयस्य यच्छब्दार्थत्वाभावात् / नहि यस्मिन्नासने देवदत्तआ ते तदानयेति वाक्यं देवदत्तस्याप्यानयनं प्रतिपादयति / आधेयस्यापि ज्ञेयत्वे एव एकमिति पदद्वयायोगात् / अन्या वाची विमुञ्चथेति वाक्यस्य निर्विषयत्वप्रसङ्गाच्च / न चंद्वाक्यानुपात्तानां तद्विषयत्वं, सत्यत्वादेरविज्ञेयत्वप्रसङ्गात् / नचान्यस्य स्वातन्त्र्येण ज्ञानं निषिध्यते न स्वरूपेणेति वाच्यम् / स्वातन्त्र्यवाचकपदाभावात्, तव मते नित्यस्य कालादेः कथमपि पराधीनत्वानुपपत्तेः। तद्वा एतद्ब्रह्माद्वयं बृहत्त्वादित्यद्वितीयत्वयोग्यस्य बृहत एव ब्रह्मशब्दार्थत्वाभिधानात् ।तथा अन्यत्रापि ''अथ कस्मादुच्यते परं ब्रह्मेति यस्मात् वृहति बृह्म तीति सर्वात्मत्वयोग्यं ब्रह्मशब्दो ऽथं दर्शयति / ब्रह्मशब्दस्य लक्ष्यमपि सर्वात्मत्वयोग्यकेबलचैतन्यमेव / तस्मादद्वयएवायमात्मा सन्मात्रो नित्यः शुद्ध इत्यादिश्रुतिरपि केवलं वाक्यार्थ दर्शयति / नापि प्रतिकूलतर्कपराहतिः। तत्र न तावत् यद्वाक्यं तत् संसर्गपरमिति नियमो बाधकः। अप्रयोजकतया नियमाभावात् प्रकृष्टप्रकाशादिवाक्ये व्यभिचाराच्च / न च पदार्थस्य वाक्यार्थत्वानुपपत्तिः वाक्यार्थब्रह्मणः.पदशक्यत्वाभावात पदलक्ष्यस्य च गोकर्मकानयनस्य वाक्यार्थत्वात् / पदविधया पदलक्ष्यस्यापि वाक्यतात्पर्यविषयत्वे बाधकाभावाच्च / पदान्तरवैयऱ्या चावानन्तरं परिहरिष्यते। त्वान्न वैयर्थ्यमित्याशङ्क्याह-न चैतद्वाक्येति / बृहति वर्धते बृहयति वर्धयति परिणामयतीत्यर्थः / ततश्च संकोचकाभावात् निरवग्रहवृद्धिः सर्वात्मत्वयोग्यतैवेति ब्रह्मणः सर्वात्मकतयाऽखण्डत्वसिद्धिरित्याहे सर्वात्मत्वयोग्यमिति / सिद्धान्ते ब्रह्मपदस्य लाक्षणिकत्वाट् तस्य कथं निर्वचनादर्थसिद्धिरित्यत आह- -ब्रह्मशब्दस्येति / निर्वचनप्राप्तवृद्धिकर्तृत्वादिपरित्यज्य पूर्णचिन्मात्रमेव तेन लक्ष्यत इत्यर्थः। एवमखण्डार्थत्वानुमाने विपक्षे बाधकं प्रदर्श्य स्वपक्षे बाधकं निराकरोति-नापोति / ब्रह्मपदार्थस्यैतद्धटितवाक्यार्थत्वे पदान्तरवैयापातात् तस्य वाक्यार्थत्वानुपपत्तिरेव बाधिकेत्याशङ्क्याह-न च पदार्थस्येति / किं पदार्थपदेन शक्यं विवक्षितं उत लक्ष्यम् ? आये प्रकृते नानुपपत्तिरित्याह-वाक्यार्थेति / द्वितीयेऽपि किं पदलक्ष्यमात्रस्य न वाक्यार्थता, उत पदविधया तल्लक्ष्यस्य ? नाद्यः सर्वत्र वाक्यार्थस्य पदलक्ष्यत्वोपपादनादित्याहपदलक्ष्यस्येति / द्वितीयं निरस्यति-पदविधयेति / पदान्तरवैयर्थ्यमेव बाधकमित्युक्तमित्याशङ्क्याह-- पदान्तरे त / अनेकपदाना मेकपदार्थपर्यवसाने वाक्यलक्षणायोगात् तत्त्वानुपपत्तिरिति चोदयति-अथेति / आकाङ्क्षादिस्वरूपं दर्शयन् प्रकृते तदभावात् वाक्यलक्षणाभावमाह-तथाहीति / अभिधानस्य किमिदं पर्यवसानमिति वीक्षायामाहयेनेति / येन विना यस्य पदस्य स्वार्थान्वयाननुभावकत्वं इत्यत्र तात्पर्यविषयान्वयाननुभावकत्वमित्यपि वाच्यम् अन्यथा शुक्लाँ गामानमेत्यादौ शुक्लपदं विनेतरपदस्य

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96