Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ चतुर्थः परिच्छेदः खल्विमानि भूतानि जायन्ते इत्यानन्दस्यैव ब्रह्मात्मतानिर्देशात् / “उदरमन्तरमित्या"दिश्रुत्या भेददर्शनस्यातर्थहेतृत्वप्रतीतेश्च। न च तमेवं विद्वानमत इह भवति इति विशिष्ट ब्रह्मज्ञानस्य मुक्तिहेतुत्वं श्रुतमिति वाच्यम् / तत्र हि सर्वात्मकत्वं पूर्वत्र प्रतिपादितं एवंशब्द आह / न च सर्वात्मत्वं सति किञ्चिभेदेऽपि सङ्गच्छते। अतः कल्पितसर्वाधिष्ठानं आनन्दं विद्वानमृतो भवति न तु भिन्नमात्मनमिति दर्शयन्ती श्रुतिः केवलात्मज्ञानस्यैव मुक्तिसाधनत्वं विषयीकरोति / 'एकधवानुद्रष्टव्यमिति ब्रह्मदर्शनस्यकाकारत्वश्रवणाच्च / एमधैवानुद्रष्टव्यमित्यस्य तात्पर्यम् अत्र हि प्रकारार्थः प्रत्ययः / प्रकारश्च ज्ञान आकारः / स च विषय एवेत्युक्तम् / तथा च ब्रह्मदर्शनस्याखण्डविषयत्व एवंकाकारत्व, विशिष्टविषयत्वे तु अनेकप्रकारत्वप्रसङ्गात् / पराभिमतेश्वरे तदभिमतप्रकारस्यापि बाहुल्येनं कधेवेत्ययोगात / न चैवमप्येकत्वविशिष्टस्यैव प्रकारत्वात अखण्डार्थत्वक्षतिः एकशब्दस्य सङ्ख्योपसर्जनकवस्तुपरत्वात् / उपसर्जनसङ्ख्यायाः तद्वाक्यशेषण बाधितत्वात् एका संख्येतिवत् एकशब्दीपपत्तेश्च / अत एव धाप्रत्ययार्थप्रकारवैशिष्टयस्य तत्त्वादखण्डार्थत्वक्षतिरिति भेदनिर्देशविरोधादेव 'आनन्दाद्धयेवेत्यानन्दगुणकादि कल्प्यत इति वाच्यम् / ब्रह्मण आनन्दमिन्नत्वे हेयत्वप्रसङ्गात् तयोः सम्बन्धानिरूपणात् चिद्रूपब्रह्मभिन्नस्य दृश्यतया मिथ्यात्वाञ्च। वास्तवगुणगुणिभावानुपपत्तेः भेदनिर्देश एव राहोः शिर इतिवत् व्याख्येय इति भावः / तत्प्रकरणे भेदस्य निन्दितत्वादपि तन्निर्देश औपचारिक इत्याहउदरमिति / सर्वात्मकत्वं पूर्वत्रेति / पुरुष एवेदं सर्वमिति पुरुषजडभेदनिषेधात् / 'सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन् यदास्ते' इति सजातीयचेतनेनाभेदाभिधानाच्च सर्वात्मत्वमेवापूर्वं पूर्वत्र प्रतिपादितमिति तत्तदेव एवमितिपरामृश्यत इत्यर्थः। आत्मैव ज्ञेयो मोक्षाय नान्य इति श्रुतिसामान्यं दर्शयति-एकधैवानुद्रष्टव्यमित्यादिना / एकाकारत्वश्रवणाच्चेति / अवधारणेन नानाकारत्वनिषेधाच्चेति द्रष्टव्यम् / प्रकारार्थे धाप्रत्ययविधानात् / वैशिष्टयप्रतियोगिन एव प्रकारत्वात् कथमखण्डविषयत्वसिद्धिरित्याशक्य प्रकारः प्रत्ययार्थ इत्येतदङ्गीकृत्यान्यन्निरस्यति-अब हीति / धर्मस्यैव प्रकारत्वेपि परमते इयं श्रुतिरसमञ्जसा स्यात् ब्रह्मणोऽनन्तधर्माभ्युपगभात् अवधारणायोगादित्याहपराभिमतेति / प्रकृत्या एकत्वसंख्याभिधानात् तद्वैशिष्टयमावश्यकममित्यत आह-न चैवमिति / तद्वाक्यशेषेणेति / 'नेह नानास्ति किञ्चने' त्यधस्तनवाक्येनेत्यर्थः / अर्भदपरो वाध्यमेकशब्द इत्याह-एकेति / तथापि प्रकृत्यर्थे प्रत्ययार्थवैशिष्टयमभ्युपेयमित्यत आहअत एवेति / अवधारणस्य अन्या वाचो विमुञ्चथ इत्यस्य चैतन्यात्ममात्रानभिहितविषय

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96