Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 73
________________ सटीकाद्वैतदीपिकायाम् सत्यादिवाक्यवैयर्थ्यशंक ।निरास यत्तु यतोवेत्युपक्रम्य 'तदन' "ब्रह्मवेदं विश्वमिदं वरिष्ठं" इति सामानाधिकरण्यात् ब्रह्मनिर्णय इति किं सत्यादिवाक्येन पदार्थपरेणेति / तन्न। वाक्यान्तरस्य हि ब्रह्ममात्रपरत्वेनाखण्डार्थत्वे सत्यादिवाक्ये तत् किं न स्यात् / न हि कल्पितजगत्कारणत्वमपि तद्वाक्यार्थों भवति / न वा जडस्य सर्वस्य ब्रह्माभेदः तेन सत्याद्यात्मकत्वासिद्धेश्च / एतेन क्षित्यादिकारणतया निर्णीते चेतने मिणि ब्रह्मशब्दशक्तिनिर्णयात् सत्यादिवाक्यं संसर्ग बोधयिष्यतीति निरस्तम् / औपनिषदस्य मानातरागोचरत्वात् / अनुमानात्तदसिद्धरुक्तत्वात् / तस्मात् सत्यादिवाक्यं ब्रह्मनिष्ठम् एवमस्थलादिवाक्यमपि / योऽयं विज्ञानमय इत्यादिवाक्यमपि 'कतम आत्मेति जिज्ञासितप्रत्यगात्ममात्रनिष्ठं, चैतन्यातिरिक्ते कल्पितेऽपुरुषार्थे तत्र श्रतितात्पर्यायोगात् / स्वरूपातिरिक्तस्य ब्रह्मणां संबन्धाभावेन तद्वंशिष्टयस्य प्रमाणश्रुतिप्रतिपाद्यत्वायोगाच्च / ब्रह्मणो निर्गुणत्वश्रुतिविरोधाच्च / ब्रह्मविदाप्नोति परमित्यत्र ब्रह्मण एव ज्ञानस्य मुक्तिहेतुत्वावगमात आनन्दं ब्रह्मणो विद्वानिति ब्रह्मानन्दज्ञानस्यैव भयनिवर्तकत्वश्रवणाच्च / न च तत्र ब्रह्मातिरिक्त एवानन्दो वेदितव्यत्वेन निर्दिश्यते / आनन्दाद्धयेव इत्यत आह-तेषामिति / सर्वात्मकं जगत्कारणं ब्रह्मपदार्थ इति वाक्यान्तरेण वैशिष्टयावगमात् सत्यादिवाक्यं संसर्गपरमिति चोद्यमनद्य निरस्यति-यत्यित्वादिना : किं 'यतो वे'त्यादिना ब्रह्ममात्रं तात्पर्यतोऽवगतं जगत्कारणत्वादिविशिष्टं वा ? आये लक्षणवाक्यत्वाविशेषात् सत्यादिवाक्यमपि तन्मात्रपरमित्याह-वाक्यान्तरस्येति / द्वितीयं निरस्यति-न वाजडस्येति / तथा च यद्रजतं सा शुक्तिरितिवत् दृश्यमात्रोपमर्दनेन तदधिष्ठानात्मैवेदं सर्वमिति वाक्यार्थ इति भावः। ज्ञानानन्दादिभेदभ्रमनिवतकज्ञानविषयस्य सत्यादिवाक्यगम्यस्वरूपविशेषस्य' वाक्यान्तरादसिद्धेश्च तस्य नान्यपरतेत्याह-तेनेति / ब्रह्मपदार्थस्यानुमानेनैव निर्णयात् सत्यादिवाक्यमन्यपरमिति तार्किकचोद्यं निरस्यति एतेनेत्यादिना / निषेधमुखेन तत्पदार्थपरवाक्येऽप्युक्तन्यायमतिदिति एवमिति / त्वंपदार्थशोधकवाक्यमप्यखण्डार्थमेवेत्युपपादयति-योऽयमित्यादिना / ब्रह्मणः सत्यत्वादिवैशिष्टयप्रतिपादनेऽपि सदाद्यात्मत्वसिद्धेः किमखण्डार्थत्वेनेत्याशङ्क्याह-स्वरूपातिरिक्तस्येति / जातिगुणादेः ब्रह्मणि संयोगतादात्म्यसमवायान्यतमस्य वास्तवस्यासंभवात् अनिर्वचनीयस्य च श्रुतितात्पर्यगोचरत्बायोगात् सर्वात्मत्वयोग्यब्रह्मपदार्थप्रतिपत्तौ इतरान्वययोग्यताभावाच्च न तत्परतेत्यर्थः / ब्रह्मातिरिक्तस्यायुरुषार्थत्वं प्रपञ्चयति-ब्रह्मविदिति / ब्रह्मानन्दज्ञानस्येति / ब्रह्मांत्मकानन्दज्ञानस्येत्यर्थः। ब्रह्मण आनन्दमिति भेदनिर्देशात् न तयोरभेद इत्याशक्याह-न चेति / न च

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96