Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतदीपिकायाम धर्मकीर्तने तदनिवृत्तेरनुत्तरत्वप्रसंगाच्च / न हि ब्रह्मणि सत्तादिमिणि जिज्ञासा भवति / तस्यागमं विनापि निश्चेतुं शक्यत्वात् / हैतुकैरपि वैशेषिकादिभिः तस्मिंस्तस्य विनिश्चितत्वात / ब्रह्मणो निर्धर्मसदादिरूपं त्वागमेन विना केनचि. 'निश्चेतु न शक्यम् / अत एव ब्रह्मणःसदाद्यात्मत्वविप्रतिपत्तिनिरासाय सत्तादि वैशिष्टयं प्रतिपाद्यत इति निरस्तम् / सत्तादिवैशिष्टयं विना ब्रह्मणः सदाद्यात्मत्वस्य प्रतीतेः / विशिष्टतात्पर्यकल्पने गौरवाच्च / “आत्मन आकाश' इत्यादिवाक्येनापि आनन्त्योपपिपादविषया प्रपञ्चोपादानस्वं योध्यते। नतु तत्स्वरूपप्रति. पिपादयिषया "उदरमन्तरं कुरुते अथ तस्य भयं भवति" इति भेददर्शनस्य तत्प्रकरणे निषिद्धत्वात् / 'यतो वाचो निवर्तन्त इति वाक्येन निष्प्रपञ्चानन्दसाक्षात्कारात् भयनिवृत्तेश्वोक्तत्वान् / तत उत्तरं केवलपरमेव / पत्तु अध्ययन करोतीत्याशिवाक्ये व्यभिचार इति; न, तत्रापि किंशब्दाभिप्रेताध्ययनप्रातिपदिकार्थस्यैव प्रतिपाद्यमानत्वात् / स च प्रातिपदिकार्थोऽध्ययन. स्वादिसंसृष्ट इत्यन्यदेतत् / अण्डार्थेऽनुमानं ___ तस्मात् सत्याविवाक्यं पदोपस्थापितपदार्थसंसर्गागोचरप्रमितिजनक पदोपस्थापितपदार्थसंसर्गागोचरतात्पर्यम् एकप्रातिपदिकार्थमात्रपरं वा लक्षण नैवावगमात् / किन्तु तस्य सत्यत्वज्ञानगुणकत्वादिधर्मवत्त्वं चेत्याशक्य तत्स्वरूपविशेषस्य ततो निश्चयान्नैवमित्याह-ब्रह्मण इति / . ब्रह्मणि सत्यत्वादिवैशिष्ट्यस्याऽन्यतोऽवगमेऽपि तस्य' अखण्डत्वविप्रतिपत्तिनिराकरणेन सत्यादिवाक्यमर्थवदित्याशक्याह-अतएवेति / भेदग्राहिमानविरोधेन अखण्डब्रह्मणि अन्यतः प्रतिपत्त्ययोगात् सत्यादिवाक्यादेव तत्प्रतीतिर्वाच्या। सा कथं तत एवएव बाध्येत्यर्थः / विशिष्टे तात्पर्यायोगादपि मैवमित्याह-विशिष्टेति / जगदुपादानत्वादेरपि श्रुतिगम्यत्वात् कथमखण्डे वेदान्ततात्पर्यमित्याशक्य तस्या अपि निमित्तोपादानकार्यकारणवास्तवभेदनिरासपरत्वान्न विरोध इत्याह-आत्मन इति / किमत्र विनिगमकमित्यत आह-उदरमिति / यतो वाच इत्यत्र आनन्दं ब्रह्मणो विद्वान् इत्यद्वैतब्रह्मसाक्षात्कारादनर्थनिवृत्तिरूपफलश्रवणादप्यद्वैत एव तात्पर्यमित्याह-यत इति / परोक्तव्यभिचारान्तरमनुवदति -यत्त्विति / किंकरोतीति क्रियमाणस्वरूपस्यैव जिज्ञासितत्वात् उत्तरमपि तन्मात्रनिर्धारकमित्याह-न तत्रापीति / तथाप्यध्ययनत्वविशिष्टाध्ययनपरत्वात् सखण्डार्थत्वमित्याशक्य तस्यवाध्ययनप्रातिपदिकार्थत्वेनोक्तसाध्यवत्त्वात् न व्यभिचार इत्याह–स चेति / / परोक्तदोषाणामाभासत्वात् अखण्डार्थत्वानुमानमनवद्यमित्याह-तस्मादिति /

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96