Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 40 सटोकाद्वैतदीपिकायाम् प्रकारत्वनिरुक्तिः तस्मात् सविषयत्व सप्रकारत्वं साकारत्वमिति पर्यायाः / प्रतिपक्षानुमानेषु मध्ये ब्रह्मतज्ज्ञानपक्षकं धर्मिग्राहकप्रमाग धितम / सत्यं ज्ञानमनन्तमिति वाक्यतात्पर्य गम्यस्यानन्तस्य संसृष्टत्वानुपपत्तेः / अनन्तत्वं हि अभावाप्रतियोगित्वं अन्तशब्दस्य परिच्छेदवाचिनोऽभावपर्यवतानात् / न च ध्वंस एवानन्तः / ध्वंसत्वस्याभावत्वघटितत्वेन विशिष्टस्य राक्यत्वे गौरवात् / नगरान्तः सोमान्स इत्यादि प्रयोगे तदर्थत्वासंभवाच्च / संसर्गामावनिरासः अस्तु तहि संसर्गाभाव इति चेत् न। संसर्गाभावत्यै स्याभावात / गोरवाच्च / कथं तहि अनन्तमाकाशमिति प्रयोगः / न ह्या शोऽद्वितीयो भवतीति / न आकाशस्यानित्यत्वात्। प्रचुरव्यवहारानुसारेण लाघवादभाव एवान्त इति निणर्णीयते। अमरादिशब्दवत् चिरस्थायितामात्रेणौपचारिकत्वाच्च / ततश्च ब्रह्मातिीयं सत्यज्ञानवाक्यार्थ इति संसर्गसाधन ,म ने बाधः / / . अतएव द्वितीयादिकमप्यसाध। एवं वेदश्च सर्वैरहमेव वेद्य इत्यादिस्मृति. बाधितं प्रकृष्टप्रकाशादिवाक्यतात्पर्यगोचरे व्यभिचारश्च . तस्यासंसर्गत्वात् / शब्दालम्बनमिति वीक्षायामाह- गदिति / ब्रह्मतज्ज्ञानपक्षकमिति / सत्यादिवाक्यतात्पर्यगोचरपक्षकानुमानं वेदान्तजन्यप्रभापक्षकमनुमानं चेत्यर्थः / .... अनन्तस्यापि संसृष्टत्वमविरुद्धमिति शङ्कायामाह-अनन्तत्वं हति / अभावपर्यवसानादिति / तथा च अन्योन्याभावस्यापि निषेधेन भेदाभावान्न तदपेक्षःसंसर्ग इति भावः। अभावत्वघटिलत्वेने ते / अभावत्वे मति उत्पत्तिमत्त्वं हि ध्वसत्वं तस्यानन्तपदशक्यत्वे गौरवात् अभावत्वमेव तच्छक्यमित्यर्थः / प्रतियोगिनि सति अन्यत्र तदभावमात्रेणान्तपदप्रयोगादपि न ध्वंसस्तदर्थ इत्याह-नगरेति / तर्हि अन्योन्याभावातिरिक्ताभाव एव तदर्थ इति शङ्कते--: स्त्वि त / अनेकार्थत्वप्रसङ्गेन दूषयति-न ससर्गेति / अन्योन्याभावातिरिक्ताभावत्वादिनाऽनुगमात् एकार्थत्वमिति शङ्कायामाह-गौ वाच्चेति / प्रामाणिकं गौरवं न दोषायेति शङ्कते-कथ तहीति / आकाशस्योत्पत्तिविनाशवत्त्वेन तत्रानन्तपदस्य कथमपि मुख्यत्वायोगात् तत्र तस्यौपचारिकत्वमेव / ततश्च लाघवानुगृहीतप्रचुरप्रयोगादभाव एवानन्तपदार्थ इत्याह-नाकाशम्येत्यादिना / फश्चितमाह-ततश्चेति / ... श्रतिविरुद्धत्वादेव सत्यादिवाक्यपक्षकानुमानमपि न साधकमित्याह-अतएवेति / तत्र साध्यभेदेनानुमानभेदादादिग्रहणम्-श्रुतिबाधितमिति / अहमेव वेद्य इत्येवकारेणात्मातिरिक्तस्य श्रतितात्पर्यगम्यत्वनिषेधादित्यर्थः। प्रमाणवाक्यतात्पर्यगोचरत्वादितिहेतोरनैकान्तिकतामप्याह-प्रकृष्टति / द्वितीयहेतोरपि प्रकृष्टादिवाक्य

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96