Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 67
________________ 38 सटीकाद्वैतदीपिकायाम् सत्तानवधारणात्मत्वम् / ततश्च अज्ञानसमानविषयं सत्ताबधारणात्मकं ज्ञानमविद्यांनिवर्तयति न तु तस्य सप्रकारत्वमपि प्रयोजकम, तेन विनाऽनुपपत्त्यभावात् / तस्यापि सत्तानिश्चयरूपस्यैव तनिवर्तकत्वात्। किञ्च सप्रकारकत्वं नाम ज्ञाने साकारत्वं, तच्च सविषयत्वमेव / तच्चाखण्डविषयज्ञानस्यापीति कुतो बाधः __ ननु प्रकारो विशेषणं तद्विशिष्टविषयं ज्ञानं सप्रकारकमिति चेत, न, चित्रगुरिति ज्ञानस्य निष्प्रकारकत्वप्रसंगात् / व्यावर्तक प्रकार इति चेत् तर्हि त्वदभिमत 'प्रमेय' मित्यादिज्ञामानां सप्रकारत्वं न स्यात् / व्यावृत्तिबोधकज्ञानविषयत्वरूपव्यावर्तकत्वस्य घटझाने प्रतीतेश्च / बस्तुतः ध्यावर्तकविषयत्वस्य पराभिमतनिविकल्पके अस्मन्मते ब्रह्मसा. प्रकारलक्षणाना परोक्तानां निरामः नच भासपानवंशिष्टयप्रतियोगी प्रकार तद्विष यकं ज्ञानं सप्रकारकमिति वाच्यम् / लाघवेन सविषयत्वस्येव सप्रकारशब्दार्थत्वात् / किञ्च भासमानवैशिष्टयप्रतियोगी प्रकारः तद्विषयत्वं ज्ञाने सप्रकारत्वं चेत् ज्ञानस्य स्वविषयत्वा. पत्तिः ज्ञानविषयत्वस्यैव भासमानशब्वार्थत्वात् / यद्ववैशिष्टचं यत्र विषयः तज्ज्ञानं तत्प्रकारकमिति चेत् न, बिशेष्यस्यापि प्रकारत्वप्रसङ्गात् / अभावविशिष्ट दिविधानानुपपत्त्या वेदान्तवाक्ये साध्याभावात् बाध इति तन्निराकरीति-नापीति / ज्ञानस्वरूपोद्देशेन न विचारादिविधिः तस्य निरपेक्षश्रतिप्रमाणायत्तत्वात् किन्तु तस्यासंभावनादिप्रयुक्तसत्तानवधारणात्मत्वनिवृत्तये। तेन तन्निवृत्ती पश्चादुत्पद्यमानमज्ञानविषयाखण्डात्मनि सत्तावधारणमिति तत एव संसारमूलाविद्यानिवृत्तिसंभवात् न त्वदुक्तानुपपत्तिरित्यर्थः / किञ्च प्रकारो नाम किं विषयमानं वा विशेषणं वा व्यावर्तको वा भासमानवैशिष्ट्यप्रतियोगि वा ? आये न विरोधः / द्वितीयादिकं त्वयुक्तमिति दूषयति-किञ्चेत्यादिना। निष्प्रकारत्वप्रसंगादिति / तत्र गवां विशेषणत्वादित्यर्थः / सप्रकारला न स्यादिति / प्रमेयत्वादीनामव्यावर्तकत्वादित्यर्थः। किञ्च किं व्यावर्तकत्वेन तद्विषयं ज्ञानं सप्रकारकं उत वस्तुतो व्यावर्तकविषयज्ञानं ? नाद्यः स्वस्यैव व्यावृत्तिबगेधकत्वेन स्वस्य स्वविषयत्वायोगात् तद्धटितव्यावर्तकत्वग्रहानुपपत्तेरित्याह-ब्यावृत्तीति / द्वितीये दोषमाहवस्तुत इति / किं भासमानवेशिष्ट्यप्रतियोगित्वेन तद्विषयं ज्ञानं सप्रकारकं उत वस्तुतस्तद्विषयंज्ञानं ? नाद्य इत्याह-ज्ञानस्येति / द्वितीयमुत्थाप्य निरस्यति-यद्वैशिष्टयमित्यादिना / विशेष्यस्यापीति / वस्तुतो वैशिष्ट्यस्य संबन्धापरपर्यायस्य उभयर्मिकत्वात् -उभयप्रतियोगिकत्वात् घटत्वादेरपि वस्तुतस्तत्र प्रतियोगित्वाकाराप्रतिभासाच्चेत्यर्थः /

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96