Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 67 चतुर्थः परिच्छेवः स्वरूपलक्षणं सर्वत्र धर्मस्यव। यावत्स्वरूपावस्थायिधर्मो विशेषलक्षणम् / कादाचित्कधर्मस्तटस्थलक्षणमिति विभाग / अतो नासिद्धिः / धर्मस्य स्वरू लक्षणत्वनिरासः यत्तु धर्म एव स्वरूपलक्षणमिति विरुद्धमिति / तदसत् / क्रियादेरपि घटादिधर्मत्वात् / न च यावद्धर्म्यनुवर्तमानो धर्म: एकत्वादौ तदप्रसिद्धः तस्य द्रव्यमात्रासाधारणत्वाच्च। अभावस्याभावत्वातिरिक्तस्वरूपानङ्गीकारे स्वरूपद्वयात्मकस्वरूपसंबन्धाभावेनाभावत्वस्य धर्मत्वानुपपत्तेश्च। एवं समवायादेरपि। नापि किं चन्द्रलक्षणमिति असाधारणधर्मप्रश्नोत्तरं प्रकृष्टप्रकाश इत्यत्र व्यभिचारः / चन्द्रलक्षणमित्यत्र लक्षणशब्दस्य चन्द्रस्वरूपपरत्वे तदपि वाक्यमखण्डार्थम् / असाधारणधर्मपरत्वे तु असाधारणत्व विशिष्टधर्मत्वस्य दण्ड्यादितुल्यत्वान्न व्यभिचारः बाधनिरसः नापि बाधः-ज्ञानमालिन्यनिवत्तये हि विचारः क्रियते। तन्मालिन्यं च उतेतरव्यावृत्तत्रया? नाद्यः प्रमेयतया ज्ञातस्यापि तस्य व्यावर्तकत्वापातात्। द्वितीये तद्वयावर्तकपरिज्ञाने तस्य व्यावृत्तत्वावगमः तदभावे तयावर्तकत्वायोगात् / तः यावर्तकस्यापि अन्यस्य तथावगमापक्षेत्यनवस्थापातान् न कस्यापि व्यावृत्तिसिद्धिरित्यभिप्रेत्याहकिञ्चेति / धर्मस्पैव लक्षणत्वमिति नियमायोगात् व्यावर्तकमेव लक्षणमिति तभेदं दर्शयन्नुपसंहरति-तस्मादिति / उभयत्र असाधारणधर्मो धर्मपदार्थः धर्मस्यैव स्वरूपलक्षणत्वात् तद्वाक्यमपि विशिष्टविषयत्वेन व्याप्तमिति परोक्तमनूद्य निराकरोतियत्त्वित्यादिना। तदप्रसद्धेरिति / द्रव्यस्वरूपत्वाप्रसिद्धरित्यर्थः / यावद्रव्यभाव्यसाधारणधर्म एव स्वरूपमित्याशङ्क्याह-तस्येति / किञ्च परमते अभावे भावरूपस्याभावरूपस्य वाऽतिरिक्तस्याभावत्वस्यानभ्युपगमात् तदात्मकस्य तस्य तद्धमत्वायोगात् तल्लक्षणत्वं न स्यादित्याह-अभावस्येति / समवायादावपि जातेरुपाघेर्वाऽसाधारणधर्मस्यानिरूपणात् तदपि लक्षणहीनं स्यादित्याह-एवमिति / वनलक्षणवाक्ये व्यभिचारः पूर्वमेव निरस्त इत्यभिप्रेत्य परोक्तं व्यभिचारान्तरं निरस्यति-नापीति / दण्ड्यादितुल्यत्वादिति / यथा देवदत्ते दण्डवैशिष्टयवुभत्सायां प्रयुक्तं दण्डी देवदत्त इति वाक्यं न तल्लक्षणवाक्यं एवं प्रकृष्टप्रकाशत्वे चन्द्रासाधारण धर्मत्ववैशिष्ट्यवुभुत्सायां प्रयुक्त प्रकृष्टप्रकाश इत्यस्यासाधारणधर्म इत्येतदुपादाय तस्मिन् असाधारण धर्मत्ववैशिष्टयपरत्वान्न लक्षणवाक्यतेति वुतो व्यभिचार इत्यर्थः। यदप्युक्तं सप्रकारकज्ञानोद्देशेन श्रवणादिविधानानुपपत्त्या वेदान्तवाक्ये साध्याभावाद्बाध इति तन्निराकरोति-नापीति / यदप्युक्तं सप्रकारकज्ञानोद्देशेन श्रवणा

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96