Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 64
________________ चतुर्थः परिच्छेदः त्मकजातेः स्वनो विशेषाभावेन तद्वचक्तेरेव विशेषत्वात् / अतो व्यक्तिविशेषज्ञानं विना जातेस्तदसंभवात् तज्ज्ञाने चोपदेशान्तरं विनापि तज्ज्ञानसंभवात् व्यक्तिरेव जिज्ञास्यते। अत एव कश्चन्द्र इति जिज्ञासा नतु काऽस्य जातिरिति / तात्पर्यानुपपत्तिश्च लक्षणाबीजम् / न चैतावता तात्पर्यज्ञानस्य वाक्यार्थज्ञानहेतुता। शक्तिग्राहकप्रमाणवत् लक्षणामूलस्यापि तदहेनुत्वात् / एतेन पृथिवीत्ववती पृथिवी पिकः कोकिलः इत्येवमादयो व्याख्याताः। व्याख्यानव्याख्येयतया सहप्रयोगो. षपत्तेश्च / वनादिकं च यदि वृक्षाविभ्योऽतिरिक्तं सदा घटावितुल्यम् / यदि नु त एव हि न पृथक् लक्षणयस्तीति म तत्राव्याप्तिः / एवं दण्डयादावपि / तस्मात् प्रकृष्टादिवाक्यमखण्डार्थमेव / एवं सत्यमानादिवाक्यमपि / तत्रापि स्वरूपप्रकाशस्य वेदान्तजन्यज्ञानस्य वा विचारात्पूर्व सत्तानवधारणात्मत्वात् आत्मातिरिक्तज्ञानस्य बन्धानिवर्तकत्वेन तस्य जिज्ञासागोचरत्वायोगाच्च / अतो नासंभवः। अत एव द्वितीयमपि लक्षणं साधु / प्रातिपदिकार्थमात्रस्यैव बुभुत्सिततया तस्यैव प्रतिपाद्यत्वात् / न चाखण्डार्थत्वे सत्याविपदानां पर्यायताप्रसङ्गः प्रवृत्तिनिमित्तभेदेन तवमावस्योक्तत्वात् / तस्माल्लक्षणवाक्यानामखण्डार्थत्वलक्षणम् अदुष्टम् / तत्प्रयाणं च तथैवेति निरूप्यते। निरस्तत्वात् सैव जातिः तस्याः चन्द्रत्वादिविशेषो व्यक्तिविशेषोपहितत्वरूप एवेति तद्विशेष आवश्यक इत्याह-अविद्यात्मेति / फलितमाह-अत इति / ___ चन्द्रव्यक्तेः प्रकृष्टप्रकाशात्मकतया ज्ञातत्वेऽपि चन्द्रत्वव्यञ्जकव्यक्तिविशेषात्मना सन्देहादिदर्शनेन तेन रूपेणाज्ञातत्वात् एकत्राप्यावृतत्वानावृतत्वयोः उपपादनाच्चन्द्रात्मकतया जिज्ञासितव्यक्तिरेव वाक्येन लक्षणया प्रतिपाद्यते। अर्थाच्चन्द्रत्वज्ञानं भवतीति न वैशिष्ट्यं वाक्यप्रमेयमित्यर्थः। मुख्यार्थान्वयेऽनुपपत्त्यभावात् कथं लक्षणेत्याशक्याऽऽह-तात्पर्यति / कुन्ताः प्रविशन्तीत्यादौ अन्वयानुपपत्त्यभावेऽपि तात्पर्यानुपपत्त्यैव लक्षणाप्रवृत्तेर्दर्शनात् अत्रापि प्रतिवचनस्य' वुभुत्सितचन्द्रप्रातिपदिकार्थ एव तात्पर्यावगमात् लक्षणावतार इत्यर्थः / वाक्यार्थप्रमितेस्तात्पर्यावगमजन्यत्वे परतस्त्वापातात् अपसिद्धान्तमाशक्याऽन्यथासिद्धया परिहरति-न चैतावतेति / अज्ञातलक्ष्यस्वरूपपरमेव लक्षणवाक्यमित्येतदन्यत्राप्यतिविशति-एतेनेति / किञ्च पिककोकिलपदार्थे भेदाभावात् तत्र पदार्थव्यावर्तकधर्मानुपाटानात् न तत् लक्षणवाक्यम् / सहप्रयोगस्तु तद र्थभेदभ्रमनिरासादेवेत्याहव्याख्यानेति / सखण्डवनादिलक्षणवाक्येऽव्याप्तिमाशङ्क्याह-वनादिकंचेति / घटादितुल्यमित्यखण्डमित्यर्थः। दाान्तिकमुपपादयति–एवमित्यादिना। आत्मातिरिक्तज्ञानस्येति / आत्मातिरिक्तवस्तुविषयज्ञानस्य कल्पितवस्तुविषयत्वात् तमेव विदित्वेत्यादिवचनात् बन्धनिवर्तकत्वायोगात् तद्विषयस्य न जिज्ञास्यतेत्यर्थः / अपर्यायपदानां एकप्रातिपदिकार्थमात्रपर्यवसायित्वमिति लक्षणेप्युक्तन्यायान्नकोऽपि दोष इत्याह-अत एवेति / लक्षणे दोषनिरासमुपसंहरन् प्रमाणदोषनिरासं प्रतिजानीते श्लोकेन तस्मादिति /

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96