Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ चतुर्थः परिच्छेदः 33 करणत्वमात्रं वा ? नाद्यः, चन्द्रत्वानधिकरणमपि चन्द्रपदवाच्यमिति निश्चयदशायां तत्त्वेन जिज्ञासाया वाक्यादर्थस्य वाऽवगमायोगात् / अत एव न द्वितीयः / चन्द्रत्वसामामानाधिकरण्यं चन्द्रपदवाच्यतायाः प्रकृष्टप्रकाश एवेति ज्ञानं तस्यापि भवतीति चेत् / सत्यम् / अत एव अज्ञातं चन्द्रत्वमेव तदर्थ इत्युच्यते। एतावता तस्य चन्द्रत्वप्रवृत्तिनिमित्तत्वासिद्धेश्व। तस्मान्न वाच्यत्वं वाक्यविधया प्रतिपाद्यते। तस्माच्चन्द्रपदवाच्यः सामान्यतोऽवगत एव जिज्ञासित इति / बुभुत्सितस्य चन्द्रस्य प्रतिपादकमेव नः / वक्यं लक्षणयाऽन्यस्मात सिद्धयेत् तत्पदवाच .ता॥ लक्षणा च स्वसंबन्धितया ज्ञात एवेति नातिप्रसङ्गः / न चैवं यतो जिज्ञासा कथं तत एव तन्निवृत्तिरिति वाच्यम् / जिज्ञासा हि स्वविषयनिश्चयनिवा न तु स्वाविषयवैशिष्ट्यनिश्चयनिवां / भिन्नविषयत्वात न्यूनानतिरिक्तदेशा चन्द्रपदवाच्यता प्रकृष्टप्रकाश एवेति स्यात् / न च तद्युज्यते / वस्तुतश्चन्द्रत्वानधिकरणेऽपि चन्द्रपदवाच्यत्वभ्रमवतः प्रकृप्टप्रकाशे तादृशवाच्यताश्रयत्वेन जिज्ञासायोगाच्चन्द्रत्वस्य न्यूनवृत्तित्वनिश्चयेन तथाबोधायोगाच्चेत्याहनाद्य इति / नानार्थत्वभ्रमादेव प्रकृष्टप्रकाशवृत्तिचन्द्रपदवाच्यताया एवान्यत्रापि सत्त्वनिश्चयेन चन्द्रत्वस्य तत्सामानाधिकरण्यमात्रेण प्रकृष्टप्रकाशे तन्निमित्तत्वं न सिद्धयेदित्यभिप्रेत्याह-प्रत एवेति। नानार्थत्वभ्रमाविरोधेनार्थान्तरं शङ्कते--- चन्द्रत्वे त। नानार्थत्वभ्रमवतो नोक्तबोधो भवतीत्येतदङ्गीकरोति-सत्यमिति / तहि स एव वाक्यार्थ इत्याशक्याह-अत एवेति / चन्द्रत्वस्य प्रकृष्टप्रकाशे प्रागेव निर्णये तत्र तद्वाच्यत्वसामानाधिकरण्याज्ञानासंभवेन तस्य वाक्यप्रमेयत्वायोगादेवेत्यर्थः। अन्यत्रापि वाच्यत्वस्यापि प्रवृत्तिनिमित्तत्वानिश्चयस्तुल्य' इत्याह-एत वतेति / किञ्च प्रकृष्टादिपदः वाच्यत्वसंसर्गो मुख्यवृत्त्या बोध्यते किं वा लक्षणया? नाद्यः, तत्र तद्वाचकपदाभावात् / द्वितीये किं प्रकृष्टप्रकाशकपदेन वाच्यता लक्ष्यते चन्द्रपदेन वा? उभयथापि कि मुख्यार्थसंबन्धितया चन्द्रपदवाच्यत्वज्ञानं न वा ? आये तज्जिज्ञासा कथमितिवाक्यं व्यर्थम् / द्वितीये हेत्वभावान्न लक्षणाप्रवृत्तिरित्यादिदोषस्तु वज्रलेपायते / सिद्धन्ते तु त्वदुक्तमथं न जानामीत्यादौ ज्ञातेऽप्यज्ञानोपपादनात् जिज्ञासालक्षणादेः संभवात् न कोऽपि दोष इत्यभिप्रेत्योपसंहरति-तस्मान्न वाच्यत्वमिति / उपपादितमर्थं श्लोकेन संगृह्य दर्शयति बुभुत्सितस्येति / अन्यस्मादनुमानादितः चन्द्रत्वानधिकरणेपि लक्षणासंभवात् कथं चन्द्रस्वरूपमेव सिद्धयेदित्यत आह–लक्षणा चेति / जिज्ञासायाः धर्मिज्ञानजन्यत्वात् तन्मात्रज्ञाननिवर्त्यत्वायोगात् स्वविषया. दधिकविषयकज्ञाननिवर्त्यत्वं वक्तव्यम् / तथा च चन्द्रस्वरूपजिज्ञासानिवर्तकस्यप्रकृष्टादिवाक्यजन्यज्ञानस्य विशिष्टविषयत्वसिद्धिरित्याशङ्ख्याह-न चैव मित्यादिना /

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96