Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 60
________________ 31 चतुर्थः परिच्छेदः नानार्थभ्रमश्चीपदेशान्तराद्वयावर्तनीयः। न च चन्द्रपदवाच्यत्वस्याश्रयमानं तेन प्रतिपाद्यत इति वाच्यम् / तस्याजिज्ञासितत्वात् / न च तस्यैव जिज्ञासेतिवाच्यम्। अनुपयोगात्। पदवाच्यत्वाधयजिज्ञासापूर्वपक्षः ननु अस्ति कश्चिच्चन्द्र इत्यनेनैव चन्द्रत्वनिमित्तकत्वं वाच्यत्वस्यज्ञातं, तस्याश्रय एव परं जिज्ञासित इति चेत् / किं वाच्यत्वस्याश्रयः उत निमित्तस्य वा? नाद्यः चन्द्रत्वाश्रयस्य ज्ञातत्वात् / द्वितीये च चन्द्र पदार्थ एव जिज्ञास्य इति मदिष्टसिद्धिः। ननु प्रकृष्टप्रकाशत्वसामानाधिकरण्येन चन्द्रत्वनिमित्तकपदवाच्यत्वे ज्ञाते तत्र चन्द्रत्वमनुमातुं शक्यत इति चेत् / किमनेन वकबन्धनप्रयासेन / साक्षादेव तत्प्रतिपादनोपपत्तेः / तस्य तत्र त्वया प्रत्यक्षत्वाभ्युपगमाच्च / न च प्रकृष्टप्रकाश एव चन्द्रपदवाच्य इति सामर्थ्यानिश्चीयते / सतो लाघवादिना चन्द्रत्वप्रवृत्तिनिमित्तत्वं स्वयमेव ज्ञास्यतीति सर्वमुपपद्यत इति वाच्यम् / नानार्थत्वनिश्चयवतः तथा बोधासंभवात् / न च तस्य चन्द्रत्वसमानाधिकरणचन्द्र न च चन्द्रेति / अनुपयोगादिति / प्रवृत्तिनिमित्तज्ञानाभावेन तावन्मात्रेण व्यवहाराद्यसिद्धरित्यर्थः। अन्यत एव प्रवृत्तिनिर्मित्तस्य' ज्ञातत्वात् आश्रय एव जिज्ञासित इति शङ्कने–नन्वत ति / तच्छब्दार्थ विकल्पयन् दूषयति-किमित्यादिना / धानत्वादिति / अस्ति कश्चिच्चन्द्र इत्यादिनेत्यर्थः चन्द्रपदप्रवृत्तिनिमित्ताश्रयस्यैव चन्द्रप्रातिपदिकार्थत्वात् तस्यैव जिज्ञास्यत्वे उत्तरमपि तत्त्रमेवेत्यखण्डार्थतासिद्धिरित्याह-द्वितीये इति / प्रकृष्टप्रकाशत्वाधिकरणे च तिज्ञासितं न च तम्यगैययं प्रकृष्टप्रकाशे चन्द्रत्वानुमानार्थत्वादितिशङ्कते-ननु प्रकृष्टेति। प्रकृष्टप्रकाशे चन्द्रत्वाज्ञाने तस्यैव जिज्ञास्यत्वेन वाक्यप्रतिपाद्यत्वसंभवात् तल्लिङ्गे जिज्ञासादिकल्पनं व्यर्थमिति परिहरति-किमनेनेति / बकपरिग्रहणार्थं प्रवृत्तः कश्चित् सवितृकिरणसन्तप्ते तच्छिरसि नवनीतं प्रक्षिप्य तेच विकीनेन तन्नेत्रयोः पूर्णयोरन्धीभूतं जिघृक्षन्ति तस्य यथा नवनीतप्रक्षेपायासो वृथा सेन विनापि तदैव ग्रहीतुं शक्यत्वात् एवमत्रापीत्यर्थः। प्रकृष्टप्रकाशे चन्द्रत्वस्यानुमेयत्वमपि एवमतेत् स्यादित्याह-तस्येति / ननु आप्तेन प्रकृष्टअकाशपदसमानाधिकरणचन्द्रपदप्रयोगसामर्थ्यात् प्रकृष्टप्रकाशत्वावच्छेदेन चन्द्रपदवाच्यता ज्ञायते / ततश्च प्रकृष्टप्रकाशत्वस्योपाधितया गुरुत्वात् तद्गतरूपादेश्वाननुगतत्वान् साघवाच्च तद्गत चन्द्रत्वमेव तन्निमित्तमित्यवसीयते ततो न कोऽपि दोष इति तत्राह-न च प्रकृष्टेति / गवादिपदवत् चन्द्रपदमपि नानार्थमेवेति ज्ञाने यस्य प्रमात्वनिश्चयः तस्य प्रकृष्ट प्रकाश एव चन्द्रपदवाच्य इति बोधो नोदेति अयोग्यताभ्रमस्य तत्प्रतिबन्धकत्वादित्याह- नानार्थत्वेति / नानार्थत्वभ्रम

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96