Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ चतुर्थः परिच्छेदः ज्ञानस्य निष्प्रकारत्वप्रसङ्गाच्च / तत्र स्वरूपातिरिक्तवैशिष्टघाभावात् / अभावस्य भूतलादेश्च अन्योन्याप्रतियोगित्वात् / स्वप्रतियोगित्वाभावाच्च / एवं प्रमेयमिति ज्ञाने विश्वमात्रस्य परमते प्रकारत्वापाताच्च / घटत्वादिवैशिष्टयस्यापि तत्र प्रतीतेः। ननु तत् प्रमेयत्ववैशिष्टचं न भवतीति चेत् / किं ततः। ननु सन्निकर्षविधया यत्प्रतीयते तदेव वैशिष्ट्यं विवक्षितमिति चेत् / यदि विधाशब्दस्य प्रकारत्वमर्थः तहि आत्माश्रयः / न चापरेऽस्य सन्निकर्षे तदस्ति / प्रत्यासत्ति विना यद्वैशिष्टयं प्रतीयते तद्विवक्षितमिति चेत् / तहि प्रत्यक्षे घटत्वादे प्रकारत्वं न स्यात् / इन्द्रियसन्निकर्षादेव तत्सन्निकर्षस्य प्रतीतेः। प्रमेयमितिज्ञाने घटत्वादेः प्रकारत्वे तत्संशयाद्यभावप्रसङ्गात् / ननु तदंशे तत् सत्तानवधारणात्मकमिति चेत् / तहि कि प्रकारत्वेन / न च स्वाधिकरणे भासमानर्वशिष्टयप्रतियोगी प्रकार इति वाच्यम्। पटशौक्लयमित्यादिज्ञाने पटादेरप्रकारत्वापातादिति भावः। किञ्च भूतलं घटरहितमित्यादौ भूतलघटाभावातिरिक्तवैशिष्टयाभावात् स्वरूपद्वयमेव वैशिष्टयं वाच्यम् / तत्र घटप्रतियोगिकाभावे भूतलप्रतियोगित्वस्य' स्वप्रतियोगित्वस्य' चाभावेन तदात्मकवैशिष्ट्यप्रतियोगित्वस्याप्यभावात् ज्ञानं निष्प्रकारकं स्यादित्याह-अभावे ति / किञ्च भासमानपदेन किं भानविषयत्वमात्रं वैशिष्टयस्य विवक्षितं उत विशिष्य संवन्धविधया भासमानत्वं प्रत्यासत्ति विना भासमानत्वं वा? नाद्यः अतिप्रसंगादित्याह-- एवमिति / प्रमेयमित्यत्र प्रमेयत्ववैशिष्ट्यमेवोल्लिख्यते न घटत्वादिवशिष्ट्यामित्यभिप्रेत्य शङ्कते- नन्विति / तथापि प्रमेयत्वप्रत्यासत्या तस्यापि भानात् त्वदुक्तलक्षणस्यातिव्याप्तिरित्यभिप्रेत्याह-किं तत इति / द्वितीयमुद्भावयति ननु सन्निकर्षति / किं विधाशब्देन प्रकार उच्यते, अन्यो वा? न द्वितीयः, तस्याप्रसिद्धरित्यभिप्रेत्य आद्ये तस्येव निरूप्यमाणत्वात् आत्माश्रय' इत्याहयदीति / घटत्वादिविशिष्टज्ञाने वैशिष्ट्यस्य सन्निकर्षत्वेन भासमानत्वं चासिद्धमित्याह-न चेति / तृतीयमुद्भाव्य निराकरोति–प्रत्यासत्तिमित्यादिना। सन्निकर्षादेवेति / घटे घटत्वसमवायस्य तत्तादात्म्यस्य वा संयुक्तसमवायरूपात् संयोगरूपाद्वा सन्निकर्षात प्रतीतेः अन्यथा तस्य ऐन्द्रियकज्ञानविषयत्वायोगादित्यर्थः प्रमेयमितिज्ञाने विश्वस्य प्रकारत्वमिष्टमिति वदन्तं प्रत्याह-प्रमेयमिति / किं प्रकारत्वेनेति / सप्रकारकज्ञानस्यापि सत्तावधारणात्मतयैव संशयादिविरोधित्वेऽखण्डात्मविषयज्ञानस्यापि सत्तावधारणात्मत्वात् संशयादिनिवर्तकत्वसंभवात् कि सप्रकारत्वेनेत्यर्थः। किं तर्हि सप्रकार

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96