Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ चतुर्थः परिच्छेदः वाक्यत्वात्। प्रातिपदिकार्थमात्र प्रश्नोत्तरत्वाद्वा लौकिकलक्षणवाक्यवत / न चासिद्धयादिरित्युक्तम् / न चाप्रयोजकत्वम् अन्यथा स्वरूपजिज्ञासाया अनिवृत्तेः / अनिर्णीते हि ब्रह्मपदार्थे तत्संसर्गस्य वाक्येन प्रमापयितुमशक्यत्वाच्च अलौकिकब्रह्मनिर्णयश्च सत्यादिवाक्यादेवेति तत् तावन्मात्रनिष्ठं पदार्थप्रतिपाद्यसंसर्गप्रतिपादनस्य विरम्य व्यापारप्रसंगेनायोगात् / ननु वृद्धिशाली ब्रह्मपदार्थ इति व्याकरणादिभिनिर्णीतत्वात् संसर्गनिष्ठं वाक्यमितिचेत् / न सामान्यतोऽवगतब्रह्मतत्त्वस्यैव विशेषनिर्धारणं विनाऽपर्यवसा त्। पर्यवसन्नपदार्थाभिधानानामेव पदानां संसर्गबोधकत्वात बृहत्त्वस्य लोके बहुप्रकारस्य दर्शनात् / तथा च व्याकरणाविभिरवगतब्रह्मसत्त्वस्यैवासति सङ्कोचकप्रमाणे निरवधिकत्वस्यैव युक्तत्वेन सर्वात्मतायोग्यमेव तदिति सत्यज्ञानादिवाक्यः सत्यज्ञानानन्तानन्दात्मना प्रतिपाद्यते तेषां भेवे ब्रह्मणः सर्वात्मत्वायोगात / तेषां च श्रुतिन्यायसिद्धतया सत्यत्वात् / विशिष्टविषयप्रश्नोत्तरवाक्ये व्यभिचारवारणाय प्रातिपदिकार्थमात्रेत्युक्तम् / सत्यादिवाक्यस्य संसर्गपरत्वे बाधकाभावादप्रयोजकत्वमित्याशङ्क्याहन चेति / किं ब्रह्मपदार्थे निर्णीते तत्संसर्गः सत्यादिवाक्याद्बोध्यते उतानिर्णीते ? नान्त्यः, पदार्थनिर्णयस्य वाक्यार्थबोधहेतुतया तेन विना तदयोगादित्याह-अनिर्णीते हीति / आधेऽपि किं मानान्तरात् ब्रह्म निर्णीतं उत सत्यादिवाक्यादेव ? नाद्यः, तस्य तदगोचरत्वात् / द्वितीये ब्रह्मस्वरूपपरत्वस्यावश्यकत्वात् / तत्प्रतिपाद्य पुनापारान्तरेणास्यैवार्थान्तरप्रतिपादकत्वायोगात् स्वरूपमात्रनिष्ठत्वं सत्यादिवाक्यस्यानिच्छताप्यभ्युपेयमित्याह-अलौकिकेति / अन्यत एव ब्रह्मपदार्थनिर्णयसंभवात् सत्यादिवाक्यं संसर्गमात्रपरमिति शङ्कते-नन्विति / व्याकरणादिना ब्रह्मत्वमात्रं ब्रह्मपदार्थ इति सिध्यति नैतावता तत्प्रतीतिः पर्यवसन्ना। लोके ब्रह्मस्वस्य बहुविधस्योपलम्भात् तद्विशेषाकाङ्क्षणात् / अतः सत्यादिवाक्यादेव तदर्थनिर्धारणमित्याह-न सामान्यत इति / मास्तु विशेषपर्यवसानमित्याशङ्कायामाह-पर्यवसन्नेति / अन्वयप्रतियोगितावच्छेदकविशिष्टार्थोपलम्भे हि पदानामन्वयबोधकत्वं, ततश्च ब्रह्मणोऽपि जीवादिव्यावृत्तरूपेण ब्रह्मपदादनुपस्थितौ च तत्संसर्गबोधकत्वमित्यर्थः / अथवा सामान्याभिधानस्य व्यक्तिप्रतिपत्ति विना पर्यवसानाभावात् व्यक्तेश्च शक्यसंबन्धितया मानान्तरेणावगताया एवापर्यवसानेन लाभात् तदन्वयो वाक्यादवगम्यते। अलौकिकब्रह्मणस्तु ब्रह्मपदार्थबहत्त्वसामान्यापर्यवसानेनालाभात् न तदन्वयस्तद्वाक्यादवगतुं शक्यः। ततश्च व्याकरणादिप्रतिपन्नसामान्यापेक्षितंविशेषस्वरूपपरमेव सत्यादिवाक्यमित्यर्थः। ज्ञानत्वादिवन्मिथ्यात्वेऽपि ब्रह्मणः सर्वात्मत्वसंभवान्न तदभेदः श्रत्या प्रतिपादनीय

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96