Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वतदीपिकायाम प्रतिसन्धीयमानस्य वाक्यस्य नरर्थक्यज्ञानायोगात् / तत आक्षेपायोगाच्च लक्षणामात्रस्योच्छेदप्रसङ्गाच्च / सार्थकत्वज्ञानदशायां प्रतीयमानार्थवाधात् लक्षणेव वक्तव्या / नापि भुजिर्मुख्यः / शत्रुगहे जलमपि न पेयमित्यभिप्रायेण हि विषं भुङ्वेति प्रयुज्यते / तत्र कथं धातुर्मुख्यार्थः भक्षणपानयो दात हेतुरप्यसङ्गतः, वाक्यश्रवणेऽपि हि नियमेन व्याप्त्यादिप्रतिसन्धानकल्पने जितं वैशेषिकेन। न वा लक्षणामात्रं सिध्यति / कथञ्चिदनुमानसंभवात् / तस्माद्वाक्यमेव सर्वपदा क्षणया शत्रुगृहभोजनादि बारयतीति रिलष्टम / सर्वपदलक्षणायां पदद्वयलक्षणायामिव बाधकाभावेन न सर्वपदलक्षणेति त्वत्प्रक्रियाया उपेक्ष्यत्वात् / वायुर्वै क्षेपिष्ठेति वाक्यस्य प्राशस्त्यलक्षकत्वाच्च / एतेन सत्यादिवाक्यस्थसर्वपदानां लक्षकत्वे ब्रह्मणो भेदे कथमनन्तशब्दविरोध उद्भाव्यते। न च लाक्षणिकमप्यनन्तपदंभेदेन विरुध्यते / कथं वा ब्रह्मणः सत्यज्ञानाद्यात्मत्वे इयं श्रुतिरुपन्यस्यते। नहि सत्यादिपदलक्ष्यस्य सत्याद्यात्मत्वमिति नवीनोक्तं निरस्तम्। आनन्दाद्यात्मब्रह्मव हि सत्यज्ञानादिपदलक्षणया प्रतिपाद्यत इत्यसकृदुक्तमिति भवति तद्वाक्यं प्रमाणम् / लक्षणाबीजं च तात्पर्यानुपपत्तिरित्युक्तम् / एतदेव वाक्यस्य प्रामाण्यानुपपत्तिलक्षणाबीजमित्याचार्यवचनादवगम्यते। अबाधितार्थ वपि तथैव तीरादिसंसर्गसिद्धः हतेयं त्वन्मतलक्षणातपस्विनीत्याह-लक्षणेतिं / द्वितीये आह--सार्थकत्वेति / शाब्दत्वेऽपि भुजिधातुः मुख्येत्युक्तं निरस्यति-नापोति / पानादावपि भुजिधातुर्मुख्य इत्यत आह-मनणेति / पानभोजनलेहनचोषणानामसांकर्येण लोके सिद्धत्वात् भुजिधातोः न पानादी शक्तिरित्यर्थः / अनुमानात् विषवदन्नस्याभोज्यताप्रतीतिरिति पक्षं निरस्यति-हेतुरपीति / जितं वैशेषिकेणेति / विषवाक्यवदेव सर्ववाक्यानामपि जिज्ञासितार्थोपस्थापनेनान्यथासिद्धेः व्याप्तहेतुबला देव वाक्यार्थप्रतीतिसिद्धेः शब्दस्य पृथक्प्रामाण्यायोगाच्चेति भावः। आप्तस्य प्रमाणान्तरविरुद्धोक्त्यनुपपत्तेः लक्षणाबोंजत्वात् ततस्तामपहायार्थान्तरानुमाने न क्वापि लक्षणा सिद्ध्येदिस्वाह -न बेति / दृष्टान्तसमर्थनमुपसंहरति-तस्मादिति / किञ्च अनेकपदलक्षणाया अन्यत्रादर्शनेऽपि पदः विषवाक्यादावभ्युपगमात् अन्यत्रादृष्टापि सर्वपदलक्षणा सति कल्पकेऽभ्युपेयेत्याह-- सर्वपदेत / भट्टमते वाक्येपि लक्षणाऽभ्युपेतेत्याह-वायुरिति / सत्यादिवाक्यलक्षणायाः परोक्तानुपपत्त्यन्तरमप्युक्तविधया निरस्तमित्याह-एतेनेति / तथापि मुख्यार्थान्वयानुपपत्त्यभावात् कथं सर्वपदलक्षणेत्यत्राह-लक्षणाबीज चेति / प्रामाण्यानुपपत्तिलक्षणाबीजमिति सिद्धान्तविद्वचनविरुद्धमित्याशङ्क्याह-एतदेवेति / सत्त्वादिति / विषस्यापि भुक्तिकर्मत्वयोग्यतया बाधा

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96