Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 84
________________ 55 चतुर्थः परिच्छेदः एवं दण्डी नास्तीति प्रतीयमानोऽभावो यदि देवदत्तप्रतियोगिकस्तहि कथं तद्वति तदभावः स्यात / अत्यन्ताभावप्रतियोगिनोरेकदा एकत्र विरोधात् / न च तदा तत्प्रतियोगितावच्छेदकावच्छिन्नो नास्तीति वाच्यम् / अभावस्य प्रतियोगिना सहैव विरोधात् / विशेष्यस्य विशिष्टानन्यत्वपक्षे त्वदुक्तव्यवस्थायोगाच्च / स च विशिष्टभेदः तस्य स्वरूपाभेदाविरोधी तस्यानिर्वचनीयत्वात् / अतएव स एवायमिति प्रततिः न विरुद्धचते। अतएव धूमवान् वह्निमानित्यभेदप्रत्ययोऽपि अस्मन्मतेऽविरुद्धः। परस्य तु कथमपि न सम्भवति / भेदाभेदस्य निरस्तत्वात् / तथापि प्रकृते न संभवति विशेषणयोरभेदावछेदकतया घूायोरिवान्वयासंभवान् / तस्माल्लक्षणवाक्यमखण्डार्थमिति न साध्यवैकल्यम् / ... तत्त्वं तु क्रियानन्वयि प्रत्याय्यव्यावत्य यूनकालीनमुपाधिरेव न विशेषणम् / विशेषणं तु व्यावर्तकं क्रियान्वयि / न चोपाधिविशेषणयोरभेद एव लक्षणभेदस्य सन्वात् / तव्यावर्तकं ! त्याय्यव्यावत्तिभिन्नकालीनमुपलक्षणम् / प्रतिकूलतक निराकरणम् नन्वस्ति प्रतिकूलतर्कबाधः। तत्त्वमसिवाक्यस्याखण्डार्थत्वे पदार्थद्वयशोधकवाक्यरेवावगतार्थत्वेन वैयर्थ्यप्रसङ्गात् / न च भेवभ्रमस्तेनानिवृत्त इति वाच्यम् / अद्वितीयब्रह्मस्वरूपनिश्चये तदयोगात् / अनिश्चये त्ववान्तरवाक्यस्यैव विचार्यत्वात / पदार्थनिश्चयाभावे महावाक्यस्यार्थाबोधकत्वाच्च / न च जीवस्वरूपस्य घटादिवत् बाध्यत्वेऽपि तदद्वितीयत्वं सिद्धयतीति वाच्यम् / योऽयं विज्ञानमय इत्यादिवाक्यात तस्य चिद्रूपतया निश्चितत्वेन तदभेदेनव ब्रह्मणोऽद्वितीयत्वनिश्चयात् / ब्रह्मणि परोक्षत्वादिभ्रमनिवृत्तेरपि तत ए। संभवादिति / विशेषणत्वमित्यभिप्रेत्योपाधिविशेषणोपलक्षणानां स्वरूपमाह- तत्वं वित्यादिना / क्रियानन्वीति / विधेयानन्वयीत्यर्थः उपलक्षणव्यावृत्तये उत्तरविशेषणम्, विशेषणलक्षणे विशेष्यव्यावृत्तये व्यावर्तकामत्युक्तम् / उपलक्षणव्यावृत्तये क्रियान्वयोति / उपलक्षणलक्षणे यस्य कस्यचिदागन्तुकस्य उपलक्षणतावारणाय व्यावर्तकमित्युक्तम् / उपाध्यादिनिवृत्तये इतरदिति द्रष्टव्यम् / महावाक्यानामखण्डार्थत्वे बाधकान्तरं चोदयति- नन्विति। पदार्थशोधकवाक्योत्थज्ञानेन जीवपरभेदभ्रमानिवृत्तेः महावाक्यमर्थवदित्याशङ्क्याहन चेति / तदयोगादिति। भेदभ्रमायोगादित्यर्थः। ब्रह्मणोऽद्वितीयत्व वास्तवभेदाभावादेवोपपद्यते / स च जीबस्य बाध्यत्वेऽपि संभवतोत्याशय त्वंपदार्थशोधक वाक्यपर्यालोलोचनया जीवस्याबाध्यत्व निश्चयान्मवमित्याह--न च जीवेत्या दना। त। एवेति / जीवाभेदेनाद्वितीयत्वनिश्चयादेबेत्यर्थः / जीवपराभेदसाधकयुक्तीनां महावाक्याङ्गत्वेन तेन विना नावान्तरवाक्यमात्रात् अभेदसिद्धिरित्यभिप्रेत्य परिहरति--मैवमित्यादिना।

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96