Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 63
________________ सटीकातदीपिकायाम् प्राथमिकचन्द्रज्ञानं च न तथा। तस्य चन्द्रत्वे सत्तानवधारणात्मत्वात् / उपदेशानन्तरभाविज्ञानं चाप्तोपशाऽनुपपत्यादिस्वरूपतर्कप्रतिसन्धानेन सत्तावधारणात्मकमिति तत् तन्निवर्तकम् / अत एव चन्द्र इत्येतावन्मात्रात् न तर्कोऽवतरति / न वा व्यक्तिविशेषोपस्थितिरिति प्रकृष्टप्रकाशप्रयोगः। विशेषश्च स्वरूपमेव / पदार्थ संसर्गतात्पर्यान्नाखण्डायः-पू-सि० नन्वेवमपि संसर्गस्य प्रतिपाद्यत्वात् कथमखण्डार्थतेति / किं भ्रान्तोऽसि / न हि संसर्गागोचरप्रमाजनकत्वमात्र अखण्डार्थत्वं, किन्तु पदोपस्थापितपदार्थ. संसर्गागोचरप्रमितिजनकत्वमित्युक्तम् / तच्चात्राप्यस्त्येव / अतएवोक्तम्-- शशङ्काभिधानाभिधेये हि पृष्टे तदेवोत्तरेणापि निर्णयमत्रेति। न चैवं ब्रह्मण्यपि धर्मवैशिष्टयं वाक्यार्थः स्यादितिवाच्यम् उत्कर्षसमतापत्तेः / एकप्रातिपदिकार्थत्वमात्रे च प्रकृष्टप्रकाशादिवाक्यसाम्यं वेदान्तानां चैतन्यमात्रे तात्पर्यमस्मादाचार्यनिरूपितम् / वस्तुतस्तु चन्द्रव्यक्तिरेव निज्ञासिता वाक्यार्थः जातेरिव व्यक्तेरपि स्वरूपविशेषसत्त्वात् / जातिविशेषाश्रयप्रयोजकत्वेन तस्य वक्तव्यत्वात् / अविद्यायदप्युक्तं एवं सति :प्रकृष्टप्रकाशपदवैयर्थ्यमिति तत्राह-अत एवेति / चन्द्रपदमात्रप्रयोगे व्यक्तिविशेषे चन्द्रत्वनिर्धारकतर्कानुदयात् तज्जन्यज्ञानं न सत्तावधारणमित्यर्थः / तावन्मान्नक्षत्रसन्तमसादिव्यावृत्तस्वरूपविशेषोपस्थितिरपि नेत्याह-न वेति / व्यक्ती व्यावर्तकधर्मातिरेकेण को वा विशेष इत्याशक्य धर्मवत् स्वरूपस्यापि व्यावर्तकत्वात् स एव विशेष इत्याह-विशेषश्चेति / चन्द्रत्वविशिष्टमेव लक्षणवाक्यप्रमेयमिति कथं तस्याखण्डार्थतेति चोदयति-नन्विति / चन्द्रत्ववैशिष्टयस्यापि जिज्ञास्यत्वादिकमभ्युपेत्य' पदार्थतावच्छिन्ननिरूपितसंसर्गतेति नाखण्डार्थत्वक्षतिरित्याह-न होति / चन्द्रप्रातिपदिकार्थ एव पृष्टः प्रतिवचनेन बोध्यत इत्येतदन्यैरपि व्याख्यातमित्याह-अत एवेति / तहि ब्रह्मप्रातिपदिकार्थस्यापि वृहत्त्वविशिष्टत्वरूपत्वात् तदेव सत्यादिवाक्यप्रमेयं स्यादित्याशङ्क्याप्रयोजकत्वेन व्याप्त्यभावात् अव्यापकधर्मापादनस्य उत्कर्षसमत्वान्नैतदित्याह-न चैवमित्यादिन' / कथं तहि दृष्टान्तदान्तिकभाव इत्यत्राहएवेति / पदार्थयोः संसर्गागोचरत्वमात्र इत्यर्थः / कथं तहि सत्यादिवाक्यार्थज्ञानस्य वैशिष्ट्यागोचरत्वसिद्धिरित्याशक्य तस्य तत्तात्पर्यगोचरत्वादेवेत्यभिप्रेत्याहवेदान्तानामिति / अभ्युपगमं परित्यजति–वस्तुतस्त्विति / व्यक्तेर्ज्ञानत्वात् कथं तत्र जिज्ञासेत्याशङ्याह-जातेरिवेति / व्यक्तौ धर्मातिरिक्तस्वरूपविशेषानभ्यूपगमे धर्माश्रयव्यवस्थानुपपत्तेः सोऽभ्युपेय इत्याह-जातिविशेषेति। किञ्च अविद्यातिरिक्तजाते

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96