Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 32 सटीकाद्वैतवीपिकायाम् परवाच्यत्वमेव तत्प्रतिपादयतीति वाच्यम् / तथात्वे लाघवावश्यकत्वाभ्यां चन्द्रत्वस्यैव वाक्यार्थत्वात् / सिद्धान्ते तु वाक्येन स्वरूपे ज्ञाते तस्य तत्पदवाच्यत्वमनुमानात सिध्यति नानार्थभ्रमोपदेशान्तराद्वयावर्तनीयः / प्रकृष्टादिवाक्याभिप्रायान्तरम् ननु चन्द्रत्वं घटादिसाधारणमिति भ्रमवतः तदवाक्यात्तत्स्वरूपसिद्धिरपि न स्यात् / एतस्माद्वाक्यादेव तस्य बाधे प्रकृतेऽपि कि न स्यादिति चेत् न, अन्यत्र तदभावनिश्चयदशायां तदनिश्चयदशायामेव वा तज्जिज्ञासासंभवात् / तस्य स्वयापि वक्तव्यत्वाच्च / यत्तु प्रकृष्टप्रका एव चन्द्रत्वावच्छिन्नः चन्द्रपदवाच्यताश्रय इति प्रतिपाद्यते / न चैवं चन्द्रत्वस्यैव तदर्थत्वापत्तिः चन्द्रत्वावत्तिछन्नवाच्यताया एव जिज्ञासितत्वदिति / प्रकृतशंकासमाधिः तन्न। किं चन्द्रत्वस्याव-छेदकत्वं तदन्यतानतिरिक्तदेशकत्वं, तत्समानाधि वतोऽपि तदविरोधित्वेनैव प्रकृष्टप्रकाशे वाच्यताबोध इत्याशक्य निरस्यति--- न चेति / चन्द्रत्ववान् चन्द्रपदवाच्यः इत्यस्य' सार्वजनीनत्वात् प्रकृष्टप्रकाशे चन्द्रत्वनिश्चय तत्र तद्वाच्यत्वाज्ञानायोगात् तत्र चन्द्रत्वाज्ञानमावश्यकमिति लाघवात् तदेव वाक्यार्थ इत्यर्थः / त्वन्मते चन्द्रप्रातिपदिकार्थानबोधने तस्य चन्द्रपदवाच्यत्वं कथं सिद्धयेदिति शङ्कायामाह---सिद्धान्त इति / प्रकृष्टादिपदो लक्षणया चन्द्रप्रातिपदिकार्थे चन्द्रत्वे बोधिते चन्द्रपदमस्य वाचक असति वृत्त्यन्तरे तत्र प्रयुक्तत्वात् यदेवं तदेवं यथाघटपदं इत्यनुमानादेव वाच्यत्वसिद्धिः / न च विशेषणासिद्धिः। उत्सर्गतः प्राप्तवृत्त्यन्तराभावस्यापवादकाभावादिति भावः कथं तर्हि नानार्थत्वभ्रमनिरास इत्याशङ्क्यानन्यथासिद्धकार्यान्तरानुपलम्भात् चन्द्रत्वस्यैवायं वाचक इत्युपदेशाद्वा तन्निरास इत्यभिप्रेत्याह-नानार्थत्वेति / अप्रकृष्टप्रकाशेऽपि चन्द्रत्वभ्रमवतः कथं प्रकृष्टादिवाक्यं तद्बोधकमिति चोदयति-नन्विति / .. अनेनैव वाक्येनान्यत्र चन्द्रत्वभ्रमस्य बाधात् व्यक्तिविशेष एव तत्सिद्धिरित्याशक्य तर्हि नानार्थत्वभ्रमस्याष्यनेनैव बाधात् व्यक्तिविशेषे तद्वाच्यत्वसिद्धिरिति न पूर्वोक्तदोष इत्याह-एवस्यादिति / घटादौ चन्द्रत्वनिश्चय कश्चन्द्र इति प्रश्नायोगात् सदभावदशायामेव प्रश्न इति प्रकृष्टप्रकाश एव तद्वोधो युक्त इत्याह-नान्यत्रेति / चन्द्रत्वस्य चन्द्रपदप्रवृत्तिनिमित्तत्वं कल्पयता त्वयाऽपि तस्य घटादिसाधारणत्वभ्रमाभावोऽभ्युपेया इनरथा तस्य प्रकृष्टप्रकाशमात्र प्रतिपन्नवाच्यतानिमित्तत्वायोगादित्याह-तस्येति / नानार्थत्वभ्रमवतोऽपि चन्द्रत्वावच्छिन्नवाच्यता प्रकृष्टप्रकाश एवेति ज्ञातुं शक्यत्वात् स एव वाक्यार्थ इति चोद्यमनूद्य निरस्यति-यत्त्यिादिना / चन्द्रत्वावच्छिन्नवाच्यताया एवेति / चन्द्रत्वस्य स्वरूपेण ज्ञातत्वादिति भावः। अद्ये कल्पे चन्द्रत्वा

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96