Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 32
________________ चतुर्थः परिच्छेदः तस्य विशेषाभावाद्युपलक्षितत्वादिति चेत् / तर्हि विशेषाभावोपलक्षितशब्दवाच्यम्। ननु विशेषाभावोपलक्षितत्वादिकं तद्विशिष्टं वा निर्विशेषादिपदवाच्यम्। तच्च न ब्रह्म, किन्तु तदाश्रयव्यक्तिभूतं विशेष्यं वा। एवं च मुख्यार्थसिद्धिः ब्रह्मणो निविशेषादिशब्दावाच्यत्वेऽपि निविशेषत्वाद्यहानिश्चेति चेत् / न, व्यक्तिः शब्दार्थः जातिस्तु उपधानमितिमते जातिविशिष्टा व्यक्तिः शब्दार्थ इति मते च यत्र विशेष्ये निविशेषत्वादिकं तस्य तत्पदवाच्यत्वायोगात्। जातिःशब्दार्थ इति मते तु घटादिव्यक्तेरपि घटादिशब्दावाच्यत्वेन ब्रह्मणस्ततो विशेषार्थं जातिवाचिभिः शब्दः ब्रह्म ज्ञात्याधारव्यक्तिसम्बन्धितयव लक्ष्यत इति वक्तव्यत्वेन मुख्यार्थाभावादिदोषतादवस्थ्यात / सत्यं ज्ञानमित्यादौ ब्रह्मणः सत्यत्वादिधर्माश्रयतयैव लक्षितत्वात् लक्ष्यघटादिवत् सखण्डत्वापाताच्च / निर्गुणस्वप्रकाशादेरब्रह्मत्वे यद्यत् ब्रह्मतयेष्टं तत्तदब्रह्मेति साधु समर्थितो ब्रह्मवादः। ननु अवाच्यादिशब्दाः समासरूपाः लक्ष्यादिशब्दास्तु यौगिकाः, उभयेषामपि वाक्यतुल्यत्वात् न वाचकतेति चेत्, न, अन्विताभिधानपक्षे तेषामपि वाचकत्वात् / अभिहितान्वयपक्षे वाक्य एवाभिहितान्वयस्वीकारेऽपि प्रकृतिप्रत्यययोरन्विताभिधायित्वात् / समासे पदार्थसंसर्गस्य यौगिके प्रकृतिप्रत्ययार्थसंसर्गस्य चानभिधेय विशिष्टवाचकः स्वरूपमुपलक्ष्यत इति शङ्कते-नन्विति / स्वरूपस्यैवोपलक्षितशब्दवाच्यतेत्याह-तीति / उपलक्षितपदस्यापि ब्रह्म न वाच्यमित्यभिप्रेत्य शङ्कते-ननु विशेषेति / निर्विशेषत्वाद्यहानिरिति / अवाच्यस्यैव ब्रह्मणो वाच्यनिविशेषत्वाद्याश्रयत्वादत्यर्थः। ___किमेतत् व्यक्तिः शब्दार्थ इति मतेनोच्यते उत जातिविशिष्टव्यक्तिरिति मतेन, जातिरिति मनेन वा ? न सर्वथापीत्याह-न व्यक्तिरित्यादिना / किञ्च ब्रह्मणोऽसत्त्वादिव्यावृत्तये सत्तादिकमभ्युपेयं ततश्च नाखण्डार्थतेत्याह-सत्यं ज्ञानमिति / निगुणत्वादिविशिष्टस्याब्रह्मत्वाभिधानमप्ययुक्तमित्याह-निर्गुणेति / अवाच्यादिपदानां समुदायशक्त्यभावात् न वाचकता, ततः कथं ब्रह्मणः तद्वाच्यत्वाभिधानमिति शङ्कते–नन्विति / इतरान्वितस्वार्थे पदानां शक्तिरिति मते वाक्यस्याप्यनेकपदशक्त्येवार्थबोधकत्वात् वाचकत्वमस्त्येवेत्याह-न, अन्वितेति / न चेतरान्वयमात्रे पदशक्तावपि विशेषान्वये वाक्यप्रमेये न कस्यापि पदस्य शक्तिरिति वाच्यम् / अन्वयप्रतियोगिविशेषस्य पदान्तरशक्तिगोचरत्वात् तत एव विशेषान्वयलाभादित्यभिमानः / मतान्तरेऽपि लक्ष्यादिपदानां वाचकत्वं घटत इत्याह-अभिहितेति / समासपदे यौगिकपदे च पदार्थसंसर्गस्यानभिधेयत्वेऽपि पदार्थानामवयवशक्तिगोचरतयाऽभिधेयत्वात् ब्रह्मणोऽपि तदवयववाच्यत्वं दुर्वारमित्याह-समासेति / अवाच्यत्वादिपदानामवयवार्थोऽपि न ब्रह्म येन वाच्यता

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96