Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 17 चतुर्थः परिच्छेदः त्वं / तन्न, आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चनेति वाक्यशेषेण ब्रह्मस्वरूपभूतानन्दस्यत्र ज्ञानात भयनिवृत्तिश्रवणेन गुणान्तरं विनाऽनुपपत्त्यभावेन लक्षणा. योगात्। मुक्तिसाधनज्ञानाविषयस्य श्रुतिप्रतिपाद्यत्वायोगाच्च / प्रत्युत वाक्योपक्रमेऽनन्तगुणं प्रक्रम्य आनन्दज्ञानान्मोक्ष इत्युक्ते देवदत्तो वामेन चक्षुषा पश्यतीत्यनेन दक्षिणेन दर्शननिषेधवत् गुणान्तराणामपुरुषार्थत्वमेव प्रतिपादितं भवेत् ततश्च ब्रह्मणोऽपि हेयगुणवत्त्वमिति साधु समर्थितस्तव समयः। न चानन्द इत्य. त्रापि गुणान्तरलक्षणा सिद्धान्तेऽपि तच्छब्देन लक्षणाभ्युपगमादिति वाच्यम् / आत्भमात्रज्ञानस्यैव सर्वश्रुतौ मुक्तिसाधनत्वावगमात् त्वदुक्तलक्षणायोगात् / अस्मन्मतसिद्धलक्षणायास्तयैव श्रुत्याऽभ्युपेतत्वात् / किञ्चास्मन्मतसिद्धा लक्षणा श्रुतितुल्यैव प्रसिद्धार्थानपायात् / यथा रेवतीवाक्ये एतच्छब्दस्य प्रकृताग्निष्टुद्धर्मरभेदावगमात् 'आनन्दं ब्रह्मण' इति षष्ठो राहोःशिर इतिवत् द्रष्टव्येत्यभिप्रेत्य ब्रह्म स्वरूपानन्दस्येत्युक्तम् / असङ्ख्येयगुणानां प्रयोजनवत्त्वाश्रवणादपि न श्रुतिप्रतिपाद्यतेत्याह-मुक्तिसाधनेति / न केवलं प्रयोजनवत्त्वाश्रवणं, प्रत्युत निष्प्रयोजनत्वमेव श्रुतितात्पर्येण गम्यत इत्याह-प्रत्युतेति / आनन्द ब्रह्मण इत्यत्रानन्दपदे / गुणान्तराणामपि लक्ष्यत्वात् तेषामपि पुरुषार्थपर्यवसायित्वमित्याशंक्य गुणान्तरपरिग्रहं विनाऽनुपपत्त्यभावात् श्रुत्यन्तरविरोधाच्च मैवमित्याह-न चानन्दमित्यादिना लक्षणाभ्युपगमादिति / विशिष्टवाचकानन्दपदस्य विशेष्यमागे लक्षणाभ्युपगमादित्यर्थः। सिद्धान्त्यभिमतलक्षणायां नोक्तदोष इत्याहअस्मन्मत इति / तमेव विदित्वेति श्रु तिपर्यालोचनया, आनन्दं ब्रह्मण इति श्रुतिर्लक्षणया आत्मस्वरूपानन्दमात्रज्ञानादेव भयनिवृत्ति बोधयति इति विशेष्यमात्रलक्षणा श्रुत्यभिमतेत्यर्थः। श्रु तादर्थादर्थान्तरलक्षणातः श्रुतैकदेशलक्षणव न्याय्येत्याह-किञ्चेति / श्रुतितुल्येति / मुख्यवृत्तितुल्येत्यर्थः प्रसिद्ध र्थानपायादिति / श्रुतार्थस्य' सर्वात्मनाऽनपायात् अश्रुतार्थस्य चानुपादानादित्यर्थः / श्रुतैकदेशलक्षणायाः श्रुतितुल्यत्वं पूर्वतन्त्र निर्णीतं चेत्याहयथेति / एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेत्यत्र कर्मान्तरविधौ सति एतच्छब्दस्य प्रकृताग्निष्टुद्वाचकत्वायोगेन स्वार्थात् प्रच्युतः "अव्यक्तासु तु सोमस्यैव स्यात्" इति न्यायेन सौमिकविध्यन्ते प्राप्त राद्धान्तितम्एतच्छब्दस्य प्रकृतधर्मविशिष्टमिवाचकत्वात् धर्मिपरित्यागेऽपि धर्ममात्रं तेन लक्षणयोपादाय तद्विशिष्टकर्मान्तरविधिसंभवान्न सौमिकविध्यन्तप्राप्तिः / न च लक्षणापेक्षयाऽव्यक्तत्वलिङ्गस्य प्राबल्यात् ततः सौमिकविध्यन्तप्राप्तिरिति वाच्यम् / अस्या लक्षणायाः श्रु तविषयत्वेन श्रुतितुल्यतया लिङ्गात् बलवत्त्वादिति / 1. एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्यतेन यजेत- इत्यत्र ताण्डिकवाक्ये पूर्वप्रकृताग्निष्टुद्यागापेक्षया अन्यत् कर्म विधीयत इति निर्णीतम् / तत्र एतेन इत्यनेन पूर्वप्रकृताग्निटुद्धर्मकेण इत्यर्थ लक्षणा पूमी ( 2-2-7)

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96