Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 51
________________ सटीकाद्वंतदीपिकायाम् प्रमाणवाक्यतात्पर्यविषयत्वात् सम्मतवत् / (2) सत्यादिवाक्यं स्वतात्पर्यविषय ज्ञानाबाध्यसंसर्गपरं स्वकरणकमितिविषयपदार्थनिरूप्यसंसर्गपरं वा प्रमाणवाक्यत्वात् अग्निहोत्रादिवाक्यवत / विषं भवेत्यादौ वाच्यार्थसंसर्गपरत्वाभावेपि उक्तसाध्यसद्भावात् न व्यभिचारः / खं च्छिद्रं कोकिलः पिकः इत्यादावप्यभिन्नार्थत्वे सामानाधिकरण्यायोगात्। छिद्रकोकिलादीनां खपिकादिशब्दवाच्यत्वसंसर्गपरत्वात् न तत्रापि व्यभिचारः। (3) वेदान्तजन्यप्रमा सप्रकारा, विचारजन्य. त्वात् संशयविरोधित्वाच्च कर्मकाण्डप्रमावत् / (4) वेदान्तजन्या प्रमा ब्रह्मनिष्ठप्रकारविषया ब्रह्मर्मिक संशयविरोधित्वात् / ब्रह्मविचारजन्यत्वाच्च / यदेवं तदेवं यथा कर्मकाण्डविचारजन्यनिश्चयः इत्यादिना प्रतिरोधात् / दृष्टान्तस्य साध्यवैकल्यं च / तथाहिअखण्डार्थत्वे विकल्पाः प्रकृष्टवाक्यस्याखण्डार्थत्वं न तावत् मुख्यवृत्त्या। लक्षणापि न तावत् गङ्गायां घोष इत्यादाविवाऽनुपपत्त्या चन्द्रादौ प्रकृष्टेन द्रव्यरूपेण गुणरूपेण वा प्रकाशेन सवन्धसत्त्वात् / नापि यष्टीः प्रवेशयेत्यादाविव तात्पर्यानुपपत्या कश्चन्द्र इति स्वरूपमात्रस्य पृष्टत्वादिति वाच्यम् / अस्ति कश्चिच्चन्द्रशब्दार्थः इत्यज्ञाने वाक्यमपि पक्षीकृत्याह-सत्यादीति। मिथ्यासंसर्गपरत्वेनार्थान्तरवारणाय स्वतापर्येत्यादि। तथा च वेदान्ततात्पर्यविषयब्रह्मज्ञानाबाध्यत्वे संसर्गस्य सत्यत्वं सिध्यतीति भावः / साध्यान्तरमाह-स्वकरणकेति / स्वशब्दः समभिव्याहतपरः / स्वकरणिका या मितिः तद्विषयो यः पदार्थः, तन्निरूप्यो यः संसर्गः तत्परमित्यर्थः / मितिविषयेति विशेषणकृत्यमाह-वषमिति / भेदभ्रमादिनिरासाय प्रयुक्तपर्यायानेकपदात्मकवाक्ये व्यभिचार इत्याशड्याह-खं छिद्रमिति / फलपक्षकानुमानमप्याह-वेदान्तजन्येत्यादि / / ___न च विचारस्य पुरुषापराधनिवृत्तिमात्रहेतुत्वाङ्गीकारात् वेदान्तजन्यप्रमाया न तज्जन्यत्वमिति वाच्यम्, तस्य' प्रतिबन्धकनिवृत्तिद्वारा प्रमायामपि हेतुत्वादिति भावः। सामान्यव्याप्तिमभिप्रेत्याह-यदेवमिति / प्रकृष्टप्रकाशवदिति दृष्टान्तोऽप्यसमञ्जस इत्याह-दृष्टान्तस्येति / किमेतस्य' मुख्यया वृत्त्याऽखण्डार्थत्वं लक्षणया वा ? नाद्यः पुख्यार्थस्य विशिष्टरूपत्वादित्याह-प्रकृष्ट वाक्यस्येति / द्वितीयेऽपि किं मुख्यार्थान्वयानुपपत्त्या लक्षणाप्रवृत्तिः। तात्पर्यानुपपत्त्या वा ? नोभयथापीति क्रमेणाह-लक्षणाऽपीत्यादिना / कश्चन्द्र इति / किं चन्द्रस्वरूपमात्रं पृच्वयते, असङ्कीर्णस्वरूपेण वा ? आये तस्य ज्ञानत्वात् न तद्विषयः प्रश्न इत्यभिप्रेत्य पूर्व तज्ज्ञानमावश्यकमित्याह-अस्ति कश्चिदित्यादिना। प्रातिपदिकत्वानिश्चयेने ते / अर्थवदधातु,

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96