Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 49
________________ सटीकाद्वैतदीपिकायाम् पदार्थाप्रतिपादकत्वात / न चेदमपि द्विषदन्नं न भोक्तव्यमिति शास्त्रमलकत्वात् शास्त्रीयपदस्मारितपदार्थसंसर्गप्रमापकम। अस्य युक्तिमलत्वेनाशास्त्रमूलत्वात् / प्रतिपिपादयिषितपदार्थसंसर्गोक्तौ चन्द्रब्रह्मादिशब्दार्थानां प्रश्नर्मित्वेन प्रागेव सामान्यतो ज्ञाततया स्वरूपेणाप्रतिपिपादयिषितत्वात् / किञ्च शीतोष्णस्पर्शवन्तौ पयः पावको इत्यादौ त्वद्रीत्या संसर्गाप्रतिपादकानेकप्रातिपदिकार्थपरेऽतिव्याप्तिः। प्रकृष्टादिवाक्येऽपि संसृष्टार्थत्वस्य वक्ष्यमाणत्वेनासंभवश्च / अत एवान्त्यलक्षणमप्ययुक्तम् / असंभवात् / 26 णदूषणम किञ्च प्रवृत्तिनिमित्ताभेदश्चेन्नापर्यायत्वं तद्भदस्त्विह नास्ति अनन्तत्वादीनां शुद्धादन्यत्रासंभवात् / अनन्तानन्दादिशब्दानां च लक्षणयाऽखण्डार्थत्वे शुद्ध तदसिद्धिः / आद्यानुमाने चाप्रसिद्ध विशेषणत्वम् / प्रत्यक्षादिनापीदमित्थमिति सप्रकारज्ञानस्यैवोत्पत्तेः / भसिद्धिश्च सत्यत्व ज्ञानत्वादेः परापरजातित्वे तस्याब्रह्म कत्वात् तत्रातिव्याप्तिरित्यर्थः। द्वितीये दोषमाह-वदेति / न च विषपादिनव द्विषदल्नादेलक्षणया स्मारितत्वात् नोक्तदोष इति वाच्यम: तस्य वाक्यप्रमेयत्वादिति भावः / द्विष दल्नादेः स्वपदास्मारितत्वेऽपि स्वमूलवाक्यगतपदस्मारितत्वात् नोक्त दोष इत्याशङ क्यांह-न चेदमिति / एतच्छत्रोरेतद्वधाकाक्षित्वात् तदीयान्नस्य द्रव्यान्तरयोगात् वधोपायत्वसंभवात् न भोक्तव्यमिति युक्तिरेव विषवाक्यस्य मलमित्यर्थः / तृतीय चन्द्रादिस्वरूपमात्रस्य प्रतिपिपादयिषितत्वायोगात् किञ्चिद्विशिष्टतया प्रतिपिपादयिषितत्वं वाच्यम् / तथा चासंभव इत्यभिप्रत्याह-तिपिपादयिषितेति / न च प्रश्नमित्वादेव ज्ञातेऽप्यज्ञातत्वमिति नोक्तदोष इति वाच्यम् / तयोविरोधादित्यभिमानः / शीतोष्णस्पर्शवन्तौ इत्यस्यकवाक्यतां मत्वाऽतिव्याप्तिमप्याह-किञ्चेति / द्वितीयं निरस्यति तद्भदस्त्विति / तह शुद्धधर्मा एव ते भवन्त्वित्याशङ्क्याह-आनन्दादीति / तदसिद्धरानन्दत्वादेः शुद्धेऽपि मानाभावादेवासिद्धः स्वरूपमेव प्रवृत्तिनिमित्तमिति वक्तव्यम्। ततश्च पर्यायतेति भावः। एवं लक्षणं निरस्यानुमानमप्ययुक्तमित्याह-आद्येति / प्रकृष्टप्रकाशादिवाक्यस्यापि संसर्गपरताया वक्ष्यमाणत्वादिति भावः / नन्वपर्यायपदत्वं पक्षविशेषणतयोपादाय संसर्गागोचरप्रमाजनकत्वमात्रं निर्विकल्पकजनके प्रसिद्धं तत्र साध्यते। ततश्च विशिष्टलक्षणसिद्धिरित्याशक्य निर्विकल्पकमपि ममासम्मतमित्याह-प्रत्यक्षादिनेति / असिद्धयादिदोषानपि क्रमेणापादयति-असिद्धिश्च त्यादिना / किं सत्यत्वादिकं जातिः उपाधिर्वा / आद्ये तस्या अलक्ष्येऽब्रह्मण्यावश्यकत्वेन ब्रह्मणो लक्षणत्वायोगात् / तद्बोधकवाक्ये लक्षणवाक्यत्वासिद्धिरित्याह-सत्यत्वेति / द्वितीये किं सत्यत्वादि तात्विकमता

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96