Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 19 चतुर्थः परिच्छेदः अन्ये प्रगल्भमतयोऽन्ययुति त्वयोश वाञ्छन्ति तत्र न हि किञ्चिदपि प्रमाणम् // 2 // अखण्डार्थव क विवरणम् एवं लक्षणया वेदान्तवाक्यं ब्रह्म प्रतिपादयतीत्युक्तम् / तच्च वाक्यं द्विविधं एक पदार्थ निष्ठम् यथा सत्यज्ञानमित्यादि तत्पदार्थपरम् / योऽयं विज्ञानमय इत्यादि त्वंपदार्थपरम्। अपरं अभेदरूपवाक्यार्थनिष्ठम् यथा तत्त्वमसीत्यादि / द्विविधस्याप्यस्याखण्ड एव वाक्यार्थः / तत्रादौ सत्यादिवाक्यस्याखण्डार्थत्वं चिन्त्यते -- अखण्डार्थत्वमपि निरुक्तमाचार्य: -अपर्यायशब्दानां संसर्गागोचरप्रमाजनकत्वम् / तेषामेकप्रातिपदिकार्थमात्रपर्यवसायित्वं वा इति / अखण्डार्थत्वे अनुमानम् प्रमाणमप्युक्तम्-सत्यादिवाक्यमखण्डार्थनिष्ठं ब्रह्मप्रातिपदिकार्थमात्रनिष्ठं वा लक्षणवाक्यत्वात तन्मात्रप्रश्नोत्तरत्वाद्वा। प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवत् / अखण्डार्थलक्षणे पर: अत्र नवीनः-आद्यलक्षणे संसर्गशब्देन संसर्गमात्रोक्तो अप्राप्तयोः प्राप्तिः संयोगः इत्यादिसंसर्गलक्षणवाक्येऽतिव्याप्तिः लक्षणवाक्यमात्रस्याखण्डार्थत्वात् / पदस्मारितपदार्थोक्तौं तु विषं भुश्वेत्यादावतिव्याप्तिः तस्य पदस्मारित श्रुतयस्तदनुसारिणश्च स्मर्तारः सम्प्रदायविदश्च प्रतिपादयन्तीत्यर्थः। निरसनीयं पक्षमाह-अन्य इति / अन्ययुति अन्यसंसर्गम् / प्रगल्भमतय इति परिहासोक्तिः अप्रगल्भमतय इद्रि वा छेदः / तेषां वाञ्छा निर्विषयेत्याह-त्र न ही ते / वृत्तसंकीर्तनपूर्वक वेदान्तेषु ब्रह्मस्वरूपलक्षकानेकवाक्यवैयर्थ्यशङ्कां निराकुर्वन् तेषां शेषशेषिभावेन विभागमाह-एवमित्यादिन।। निवर्त्यभेदादेव द्वैविध्यं न तु विषयभेदादित्यभिप्रेत्याहद्विविधस्यापीति / किमिदं अखण्डार्थत्वं सत्यादिवाक्यानां तद्वत्वे किं वा मानमिति वीक्षायामाह-अखण्डार्थत्वममीत्यादिना। गामानयेत्यादिशदानामपि प्रमाजनकत्वमात्रमस्तीति संसर्गागोचरेत्युक्तम्। तावत्युक्त निघण्ट्रपस्थितपदेष्वतिव्याप्तिः तन्निवारणायापर्यायेति विशेषणम् / पिकः कोकिले वायसः काक इत्यादिपदेष्वतिव्याप्तिवारणाय द्वितीयलक्षणे एकेति विशेषणम् / उक्तलक्षणादौ परोक्तदोषमनुवदति-अत्रेति / संसगांगोचरेत्यत्र संसर्गपदेन संसर्गमानं विवक्षितं उत पदस्मारितपदार्थसंसर्गः? प्रतिपिपादयिषितपदार्थसंसर्गो वा? नाद्य इत्याह-ससर्गेति / संसर्गलक्षणवाक्यस्य तव मते लक्षणया संसर्गमात्रप्रमाप

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96