Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 57
________________ 28 सटीकाद्वैतदीपिकायाम बायप्रदर्शनमपि तत्स्वरूपनिर्धारण एव तर्कविधयोपयुज्यते। नतु व्यक्त्यन्तरे संशयाभावे / चन्द्रपदवाच्यचन्द्रत्वनिर्धारणं तु त्वया व्यक्तिविशेषे प्रत्यक्षरूपमम्युपेयते। तस्मात्तत्र शुक्लत्वे उपदेशसहकृतप्रत्यक्षावज्ञाननिवृत्तिरत्र नेत्ययमेव विशेषः। ___ नन्वेवं एतेषु कश्चन्द्र इत्युपदेशसहकृतप्रत्यक्षादपि तत्राज्ञाननिवृत्तिः स्थादिति चेत् / न तादृशोपदेशस्य प्रत्यक्षव्यक्तिविशेषे तत्सत्तानिश्चायकतायामप्रयोजकत्वात् / किञ्च यदि प्रकृष्ट प्रकाशे सत्तानिश्चयरूपं चन्द्रत्वप्रकारकप्रत्यक्षमस्ति तहि यत् त्वया चन्द्रत्वप्रकारकतया प्रत्यक्षेणं विषयोक्रियते तत् चन्द्रपदबाच्यमिति ज्ञानात् प्रकृष्टप्रकाशे संशयो निवर्तेत / अपि चैवं चन्द्रत्वाश्रयश्चन्द्रपदवाच्य इति ज्ञानानन्तरं चन्द्रत्वं कश्चिद्धर्मः स च प्रकृष्टप्रकाशे वर्तत इति उपदेशात तव तत्संशयनिवृत्तिन स्यात् तस्य प्रत्यक्षादधिकविषयत्वाभावात तेनापि प्रकृष्टप्रकाशनिष्ठे धर्मे चन्द्रपदवाच्यत्वाविषयीकरणात् / प्रत्यक्षस्याप्यखण्डधर्म प्रेत्याह-शक्ल इति / ननु शुक्लादौ अङ्गुलिनिर्देशपुरस्सरं वाच्यत्वग्रहात् ब्यक्त्यन्तरेऽपि न संशयः / चन्द्रत्वे तु न तथेत्याशङ्क्याह-अङ्गुलीति / शुक्लत्व इव चन्द्रत्वेऽप्यवगतेः तुल्यत्वात् कथमत्र संशयादीत्याशक्याह-तस्मादिति / चन्द्रेऽपि प्रकारान्तरेण उपदेशसहकुतप्रत्यक्षसंभवात् तत एवाज्ञाज्ञादि निवर्तेतेति चोदयति नन्विति / सामान्योपदेशस्यान्यथोपपत्तिशंकायाः तदर्थज्ञानस्य व्यक्तिविशेषे चन्द्रत्वसत्तानवधारणात्मत्वात् -ततो नाज्ञानादिनिरास इत्याह-न तादृशेति / चन्द्रपदार्थेऽज्ञानाभावे बाधकान्तरमाह-किञ्चेति / न च चन्द्रत्वपदस्यागृहीतसङ्गतिकत्वात् चन्द्रत्वप्रकारकतयेतिवाक्यमबोधकमिति वाच्यम्। वस्तुतश्चन्द्रत्वस्य तज्ज्ञानप्रकारत्वे तत्पदसमभिग्याहारादेव चन्द्रत्वपदाभिधेयस्यापि ज्ञातुं शक्यत्वात् / नन्वथाप्ययं चन्द्रत्वप्रकारकज्ञानविषय इति विशिष्य न ज्ञायत इति चेत् नायं चन्द्रत्ववान् इति ज्ञाने सति तच्च विशिष्य न ज्ञायत इत्युक्तेरयोगात् तज्ज्ञानाभावे तु अज्ञातमेव चन्द्रत्वमिति न विवाद इति भावः / प्रत्यक्षेण व्यक्तिविशेषे चन्द्रत्वावगतावपि वाच्यत्वादिसंशयवत् शब्दतस्तदवगतावपि न संशयः स्यादित्याह-अपिचेति / ननु प्रत्यक्षेण प्रकृष्टप्रकाशगतचन्द्रपदवाच्यत्वं न ज्ञायते वाक्येन तु ज्ञायत इत्याशङ क्य तत्र वाच्यत्ववाचकपदाभावात् तज्जन्यज्ञानमपि न तद्विषयमित्याह-वेनापीति / ननु त्वन्मतेऽपि येयं व्यक्तिः प्रकृष्टप्रकाशत्वेन नक्षत्रादिव्यावृत्तधर्मवत्त्वेनानुभूयते सैव चन्द्र इत्युपदेशात् कथं संशयनिवृत्तिः प्रत्यक्षाननुभूताविषयीकरणात् वाच्यबोधनस्य च त्वयव निरस्तत्वात् इति चेन्न, अनुभूयमानव्यक्तावेव चन्द्रत्ववत् अभिन्नव्यक्तिस्वरूपविशेषस्य प्रत्यक्षानिश्चितस्य तेन प्रतिपादनात् / यद्यप्यस्मन्मते अभेदो व्यक्तिस्वरूपमेव तत्त प्रत्यक्षेणापि विषयीक्रियते तथापि तज्ज्ञानं चन्द्रत्ववत् व्यक्त्यंशे न सत्तानिश्चयरूपं अनन्तरं तत्संशयादिदर्शनात् / उपदेशजन्यं तु तज्ज्ञानं सत्तानिश्चयादेवेत्यस्त्विति

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96