Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ चतुर्थः परिच्छेदः शब्दवाच्य इत्याप्तवाक्यानिश्चये पटशौक्ल्ये न तद्वाच्यत्वसंशयः। एवं चन्द्रत्वसंज्ञिता काविज्जातिः तदाश्रयश्चन्द्र पदवाच्य इति निश्चये सति प्रकृष्ट प्रकाशे चन्द्रत्वनिर्णये तत्संशयो न स्यात् / तनिष्ठे धर्मे वाच्यत्ववैशिष्टयनिश्चयस्योभयत्र तुल्यत्वात् / ननु प्रकृष्टप्रकाशतद्धर्मवत्तित्वेन चन्दपववाच्यत्वं न ज्ञातमिति चेत् तहि पटगुणधर्मवृत्तित्वेन प्राक्तस्याप्यनवगमात् तत्रापि संशयः स्यात् / पटगुणवृत्तिजातो शुक्लपदबाच्यत्वविशिष्टजात्यभेदावगमात्तत्र न सत्संशय इति चेत् / तत्र कि पटगणे तविशिष्टत्वनिश्चयप्रयुक्तः तस्यास्तवभेदावगमः उतान्यप्रयुक्तः ? आये प्रकृतेऽपि तवभेवावगमः स्यात् / तव पते चन्द्रत्वस्य व्यक्तिविशेषे निश्चितत्वात् / न द्वितीयः / चन्द्रत्वमेकमितिनिश्चितत्वेन तद्धदाजानादेरपि तुल्यत्वात्। नवीनशंकानिरासः यत्तु तस्मिन् धर्षे चन्द्रत्वसंजित्वं म जानायीति तन्न / तत्संज्ञित्वं हि तद्वाच्यत्वं, तच्च पटगुणनिष्ठेऽपि शुक्लत्वे स्वरूपेणेवात्रापि बातमेव / अत एव व्यक्तिविशेष चन्द्रत्वपक्वाच्यजातिवशिष्टयनानं न सत्तानिश्चयरूपमिति प्रत्युत्तम् / शुक्छः पट इति बानवत् तस्यापि तनियमात् / अशुलिनिर्देशन शुक्लागुणे अयं शुक्छपदवाच्य' इत्याप्तवाक्यात् तवाच्यत्वनिश्चयेऽपि पटगुणे न तत्संशयो जायते। तत्कस्य हेतोः? तत्स्वरूपस्य तत्र निर्धारितत्वात् / वस्तुतो वाक्योत्यज्ञानविषयत्वाच्च / एवं प्रकृष्टप्रकाशे चन्द्रत्वं निर्धारित चेत् चन्द्रपदवाच्या काचिज्जातिरित्याप्तवाक्योत्यज्ञानस्य वस्तुतस्तविषयत्वात् तव तद्वाच्यत्वसंशयो न स्यात् / न च निश्चिते दोषबलात् तत्र संशय इति वाच्यम् नियमेनोपदेशनिवर्त्यस्य तस्य तदभावातिरिक्तदोषाप्रयोज्यत्वात् उपदेशविशेषस्य च वाच्यत्वज्ञान एवोपयोगे तज्ज्ञानसामग्रयाः पटशौक्ल्य इव प्रागेव संभवात् तत्संशयो न स्यादित्यर्थः / वस्तुतः प्रकृष्टप्रकाशवृत्तिधर्भे चन्द्रपदच्यत्वज्ञानेऽपि तवृत्तित्वेन तदज्ञानात् सन्दिह्यत इति शङ्कते-नन्विति / तर्हि पटशौल्येपि तदज्ञानात् सन्देहः स्यादित्याहतीति / घटगुणगतजातिविशेषे शुक्लपदवाच्यत्ववैशिष्टयावगमात् तदभेदेनावगतपटगुणगत शुक्लत्वजातौ न तत्संशय इति शङ्कते-पटगुणेति / पटगुणगतशुक्लत्वजातेः तद्वाच्यत्वविशिष्टाभेदावगमः किं घटगुणे शुक्लत्वविशिष्टत्वनिश्चयप्रयुक्तः उत शुक्लत्वमेकमिति निश्चयप्रयुक्त इति विकल्पयति-तत्र किमिति / उभयथाऽपि परमते चन्द्रत्वे न वैशिष्ट्यसिद्धिरिति दूषयति-नाद्य इत्यादिना / प्रकृष्टप्रकाशवृत्तिधर्मे चन्द्रत्वसंज्ञाकत्वं न ज्ञातं प्रश्नगोचर इति अन्योक्तमनद्य निरस्यति-यत्त्वित्यादिना। पटशौक्ल्यपदवाच्यत्ववैशिष्ट्यज्ञानं निश्चयरूपं चन्द्रे तु न तथेति संशयोपपत्तिरित्याशङ्क्याह-अतएवेति / प्रकृष्टप्रकाशे चन्द्रत्वज्ञानस्य' सत्तानिश्चयरूपत्वे चन्द्रपदवाच्यत्ववैशिष्ट्यज्ञानस्यापि सत्तानिश्चयरूपत्वात् तद्विशिष्टचन्द्रत्ववैशिष्ट्यज्ञानमपि तथेति न वैषम्यमित्यभि

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96