Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 54
________________ 25 चतुर्थः परिच्छेदः जातत्वात् / चन्द्रव्यवहारशब्देन चन्द्रशब्दविशेषितो व्यवहारो विवक्ष्यते नतु पदार्थविशेषितः / तस्मात् साध्यवैकल्यं तस्य दुष्परिहरम् / द्वितीयानुमाननिरासः एतेन द्वितीयमप्यनुमानं निरस्तम् / प्रकृष्टादिवाक्यवदुक्तरीत्या सत्यादि. वाक्येऽपि बुभुत्साद्यनुपपत्त्या ब्रह्मस्वरूपमात्रप्रश्नोत्तरस्यासिद्धः। इह कश्चन्द्र इतिवत क्लप्तस्य प्रश्नस्याभावात् / कल्प्यस्य च क्लुप्तोत्तरानुसारेण धर्म विषयकस्यैव कल्प्यत्वात् / कतम आत्मा कतर आत्मेत्यत्र त्वंपदार्थप्रश्ने 'वा बहूनां जातिपरिप्रश्ने डतमच्"। किं यत्तदोनिर्धारणे द्वयोरेकस्य डतरच इति सूत्राभ्यां जात्यावर्षकतमादिशब्दप्रयोगेण तत्प्रतिवचने योऽयं विज्ञानमयः इत्यादौ पक्षस्वेन स्वदभिमतहेतोरसिद्धश्च / सर्वस्याप्युत्तरस्य प्रश्नमिनिष्ठनिर्धारितकप्रकारत्वात् / विरुद्धत्वाच्च / अन्यथा उत्तरमेव न स्यात् प्रश्नाधिकविषयत्वात उत्तरस्य / किं करोति किमानेयमितिप्रश्नीत्तरेषु अध्ययनं करोति गामानयेत्याविषु व्यभिचाराच्चेति / नवीनपूर्वपक्षसमाधानम् अत्रोच्यते। 'स्वपदोपस्थापितसंसर्गागोचरप्रमितिजनकत्वमखण्डार्थत्वम् / संयोगादिलक्षणवाक्यमपि एवं विधमेवेति नाव्याप्तिः। विषंभुश्वेत्यादिवाक्यमपि स्वपदस्मारितपदार्थसंसर्गगोचरप्रमितिजनकमेव लक्षणया। तयोरेवान्वय तन्मात्रप्रश्नोत्तरत्वादिति हेतोरप्यसिद्धयादिदोषवत्त्वादाभासतेत्याह-एतेनेति / बुभत्साद्यनुपपत्त्येति बुभुत्सादेः धमिधीपुरस्सरत्वात् तन्मात्रस्य ज्ञातत्वे न तद्विषयत्वं प्रश्नादेरित्यर्थः। सत्यादिवाक्यात् प्राक् ब्रह्मप्रश्नाश्रवणात् तस्य प्रश्नोत्तरत्वं च नेत्याह-इहेति / ब्रह्मलक्षणश्रवणादेव तन्मात्रप्रश्नोऽपि कल्प्यत इत्याशङ्क्याह-कल्प्यस्य चेति / कतप आत्मेत्यादिप्रश्नस्य स्वपदार्थस्वरूपविषयस्य श्रवणात् तदुत्तरवाक्यमपि तन्मात्रविषयमित्याशक्याह-कतम इति / विरुद्धत्त्वादिकमप्याह-सर्वस्येत्यादिना / पूर्वोक्तबाधसत्प्रतिपक्षी अत्रापि तुल्यौ इति भावः / लक्षणे दोषाभावं वक्तुं तत्स्वरूपं तावदाहस्वपदेति / स्वस्य' वाक्यस्यावयवभूतं यत्पदं तेनोपस्थापितः स्मारितो योऽर्थः तन्निरूपितो यस्संसर्गः तदगोचरा या प्रमा तज्जननयोग्यत्वमित्यर्थः। शुकाद्यदीरितलक्षणवाक्ये. ऽव्याप्तिवारणाय योग्यत्वमित्युक्तम् / तच्च लक्षणवाक्यत्वादिना द्रष्टव्यम् / गामानये. त्यादिवाक्योऽतिव्याप्तिवारणाय-स्वपदेत्यादि। परोक्ताव्याप्तिमपवदति-संयोगादीति / तत्रापि प्राप्त्यादिपदैः संयोगप्रातिपदिकार्थस्यैव लक्ष्याणत्वात् तदवयवपदार्थसंसर्गप्रमाजनकता नेत्यर्थः / उपस्थापितेति विशेषणकृत्यमाह-विषमिति। तयोरेवेति ! विषं -

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96