Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ चतुर्थः परिच्छेदः तत्र मिज्ञानसाध्याया बुभुत्सायाः संशयस्य चानुपपत्तेः। चन्द्रपदस्य प्रातिपदि. कत्वानिश्चयेन सुन्विभक्तिप्रयोगायोगात् / चन्द्र इत्यनद्य स कः इतिप्रश्नायोगाच्च / न ह्यज्ञातमनुवादाहम / असङ्कीर्णचन्द्रस्वरूपं न ज्ञातमिति चेत् / न / चन्द्रस्वरूपद्वयाभावात् / तदेवासङ्कीर्णस्वरूपस्वेन न ज्ञ.तमिति चेत् न, असङ्कीर्णत्वस्य व्यावृत्तिव्यावर्तकवैशिष्टययोरन्यतर. रूपत्वेन प्रश्नस्य विशिष्टपरत्वापातात् / तस्माच्चन्द्रस्येतरस्मात् भेदक एव धर्मः पृष्ट इति न तद्वाक्यस्याखण्डार्थत्वम् / एवं प्रतिवचनस्य प्रकृष्टत्वादिविशिष्टतात्पर्याभावे यः कश्चिच्चन्द्र इत्येव बांधनात् / अतात्पर्यविषयस्य च प्रतीतस्याब्यावर्तकत्वात् वस्तुतो यस्य कस्यचित् चन्द्रत्वं स्यात् तात्पर्यविषये अखण्डे अयं चन्द्र इति लक्षणलक्ष्यरूपोद्देश्यविधेयादि. विभागाभावेन तात्पर्यतो यत्किञ्चिदित्येव बोधनात् तेन चन्द्रबुभुत्सानिवृत्य भावात् / कश्चन्द्र इति प्रश्नोत्तरं च न स्यात् / प्रकृष्टादिपदवययं च स्यात् / अखण्डार्थत्वेऽनुपपत्तयः एवं च गामानयेत्यादी गोत्वस्यानयनेनेव प्रकृष्टत्वादेः विधेयेन चन्द्रप्रातिपदिकार्थेनानन्वयेऽपि उद्देश्यतावच्छेदकत्वेन विवक्षितत्वात् तद्वदेव वैशिष्टयार्थत्वं दुर्वारम् / अस्ति च पृथिवीत्यादौ पृथिवीत्वस्य विधेयेन पृथिवीशब्दार्थत्वेनान्वय. रित्यर्थवत एव प्रातिपदिकसंज्ञाविधानात् चन्द्रपदस्य अर्थवत्त्वाज्ञाने प्रातिपदिकत्वाज्ञानात् तदधीनसुब्विभक्तिप्रयोगायोग इत्यर्थः / द्वितीय मुद्भावयतिअसंकीर्णेति / किं वस्तुतोऽसङ्कीर्णं रूपं न ज्ञातं उत तत्वेन ? नाद्य इत्याहचन्द्र इति / द्वितीयमुद्भावयति-तदेवेति / अस्मिन् पक्षे अज्ञातासंकीर्णत्वस्येव प्रश्नगोचरतया स्वरूपमात्रस्य पृष्टत्वासिद्धिरित्याह-न सङ्क र्णत्वस्येति / एवं प्रश्नो विशिष्टविषय इत्युक्त्वा प्रतिवचनमपि तथेत्याह- मेति / प्रकष्टादिवाक्यस्य व्यावर्तकधर्मवैशिष्ठ्यपरत्वाभावे तस्य तज्जन्यप्रमित्यगोचरस्य चन्द्रत्वाश्रयव्यावर्तकत्यायोगात् यस्य कस्यचित् चन्द्रत्वमिति पूर्वावस्थातो न विशेषः स्यादित्यर्थः / मनु अखण्डस्वरूपविशेषे तत्परेण लक्षणवाक्येन निर्धारिते अर्थात् तस्येतरव्या वृत्तिसिद्धिरिति नेत्याह-अतात्पर्य विषयस्योते। उद्देश्यविधेयभिाग भावः उद्देश्यवाचकपदवैयघं चेत्याह-कृष्टादीति / तव मतेऽपि प्रकृष्टादिपदार्थस्य प्रकृष्टत्वादेः चन्द्रप्रातिपदिकार्थेनोद्देश्यतयाऽनन्वयात् तद्वैयर्थ्यमित्याशङ्क्याह-एक चेत / क्वचिद्विधेयेनाप्यन्वयोऽरतीत्याह-अस्ति चेति / पृथिवीत्वस्य कथं पृथिवीशब्दार्था

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96