Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 50
________________ 21 चतुर्थः परिच्छेदः ग्यपि तस्य तात्विकस्य धर्मिज्ञानाबाध्यस्य चासंभवात् / अतात्विकस्य व्यावहारिकस्य चानात्मन्यपि सत्त्वात्। विरुद्धं च असाधारणधर्मरूपलक्षणपरवाक्यत्वस्य सखण्डार्थत्वेनैव व्याप्तत्वात् / न च स्वरूपलक्षणस्थानतिरेकात् तत्परत्व. मखण्डार्थत्वाविरोधि। तस्य लक्ष्यमात्रत्वे लक्षणभावायोगात्। अतिरेकेऽपि यावल्लक्ष्यभावित्वादिनैव स्वरूपलक्षणत्वोपपत्तेश्च / न च द्वारत्वेन लक्षणपरत्वं द्वारिणोऽखण्डत्वाविरोधि। वक्ष्यमाणन्यायेन लक्ष्यभावात्प्रागेव सामान्यतो ज्ञाते लक्ष्यस्वरूपमात्रे तस्य द्वारत्वायोगात् / सखण्डवनादिलक्षणवाक्ये व्यभिचारश्च / किं चन्द्रलक्षणं इत्यसाधारणधर्मप्रश्नोत्तरप्रकृष्टादिवाक्ये व्यभिचारश्च / न चाखण्डलक्षणवाक्यत्वं हेतुः / असिद्धः। न च धर्मे पृष्टे स्वरूपमात्रं वक्तुमुचितम् / न च प्रश्नविशेष्यविशेष्यकत्वं उत्तरत्वे तन्त्रम्। किन्तु तन्मूलसंशयविरोधित्वम्, बाधश्च मिज्ञानाधीनस्वप्रकारकसंशयादिनिवर्तकम् मोक्षहेतुं सप्रकारकज्ञानं प्रति साधनत्वेन वेदान्त विचारविधानान्यथानुपपत्त्या बलवत्या वेदान्तवाक्ये साध्याभावनिश्चयात। अखण्डा नुिमाने सत्प्रतिपक्षोद्भावनम् सत्प्रतिपक्षत्वं च (1) सत्यादिवाक्यतात्पर्यविषयः संसृष्टरूपः संसर्गरूपो वा तात्त्विकं ? आद्येऽसम्भवः द्वितीयेऽतिव्याप्तिरिति न लक्षणतत्याह-अजातित्वेत्यादिना। अतात्विकमपि पृथिवीत्वादिवल्लक्षणमस्त्वित्यपि न वाच्यमित्यभिप्रत्योक्तम्--धर्मिज्ञाने त। ननु सत्यादिवाक्यं स्वरूपलक्षणपरं, स्वरूपलक्षणं च न लक्ष्याद्भिद्यते ततो नोक्तदोष इति नेत्याह-नच स्वरूपेति / लक्ष्यभिन्नस्यैव लक्ष्यधर्मत्वे कथं स्वरूपलक्षणतटस्थलक्षणभेद इत्यत्राह-अतिरेकेऽपीति / ___ अखण्डस्वरूपप्रतिपत्त्युपयोगितयवासाधारणधर्मस्य लक्षणवाक्येनाभिधानं न वरुध्यत इत्याशवयाह-न च द्वारत्वेनेति / पूर्वमेव धर्मिज्ञानाभावे-संशयबुभुत्साद्यनुपपत्तिरिति वक्ष्यमाणो न्यायः। कि यथाश्रुत एव हेतः उताखण्डत्वविशेषितः ? आये आइ-सखण्डे।। द्वितीयं निरस्यति-न चेति / लक्षणप्रश्नोत्तरवाक्यमपि स्वरूपपरमेव / ततो न व्यभिचार इत्याशङ्क्याह-न च धर्म इति / ननु धर्मविशेष्यकप्रश्नस्य कथं धर्मिविशेष्यक मुत्तरं स्यात्, प्रश्नोत्तरयोरेकविशेष्यकत्वनियमात् / अतस्त्वन्मतेऽन्यनुचितमिति-तत्राह-न च प्रश्नेति / बाधश्च ति / ब्रह्मणि संशयादिविरोधिज्ञानाय वेदान्तविचारविधानात् ब्रह्मज्ञानमात्रस्य च संशयाद्यनुकूलतया तदविरोधित्वात् सप्रकारकज्ञानविशेष एव तद्विरोधीति तज्जनकवेदान्तानां विचारविध्यनुपपत्त्या सखण्डार्थत्वनिश्चयात् बाध इत्यर्थः इति / पदार्थानां संसर्गो वाक्यार्थ इति मतेनाह-संसर्गरूपो वेति /

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96