Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतदीपिकायाम् तथाचाह--भवनाथः-लिङः कार्यत्वसामान्यवचनत्वे स्थायिरूपकार्यविशेषोऽ. नन्यप्रामाणको न प्रतीयेतेति। अतः सत्यज्ञानाद्यात्मके ब्रह्मणि ब्रह्मादिपदानां लक्षणव / न च ब्रह्मादिपवैः, तत्तद्धर्म्युपस्थितौ वाक्याद्विशेषसिद्धिरिति वाच्यम्। तथापि वाक्यार्थस्य ब्रह्मणो लक्ष्यत्वात् / नहि पदार्थंकदेशस्यापदार्थस्य वाऽन्वयो युक्तः, किश्चास्य वाक्यार्थत्वात् प्रवृत्तिनिमित्ताभावाच्चावाच्यत्वमिति कथं घटाद्यविशेषः। यत्तु 'लक्ष्य' 'अवाच्यं' इत्यादिपदवाच्यत्वात् ब्रह्मणो न सर्वपदलक्ष्यत्वमिति तन्न, तत्र प्रमाणाभावात् / कि सर्वशब्दलक्ष्यत्वमुपपादयितुं तस्य तत्पद वाच्यत्वं उत लक्ष्यादिपदप्रवृत्तिनिमित्तस्य ब्रह्मणि सत्त्वेन त्वदुक्तानवस्थापरिहाराय बा ? नाद्यः, लक्ष्यादिपदवाच्यत्वे तदयोगात्। स्यैवापर्यवसानलभ्यत्वात् विचारात् प्रागपि सत्यादिपदात् ब्रह्मप्रतीतेश्च तस्य न विचाराधीनापर्यवसानाल्लभ्यतेति भावः। मानान्तरेणेतरविविक्ततया शक्यसंबन्धावगमं विना नापर्यवसानाल्लाभ इत्पत्र मीमांसकधौरेयस्य सम्मतिमाह-तथा चाहेति / लिङादेः कार्यत्वसामान्यवाचकत्वेऽपि क्रियातिरिक्तकार्यस्य शक्यसंबन्धितया विमर्शा. वगतस्य अपर्यवसानाल्लाभात् न लिङादिपदशक्यतेति चोद्यमयक्तं तथापि तस्य तेन रूपेण मानान्तरेणानवगमान् अपर्यवसानाल्लाभासंभवादिति भवनाथवचनार्थः / वाक्यार्थब्रह्मणोऽन्यतोऽसिद्धः लक्ष्यत्वमुपेयमित्याह-अत इति / ननु ब्रह्मादिपदैः अपर्यवसानात् तद्धर्मिमात्रोपस्थितौ द्रव्यं घट इत्यत्रेव सामानाधिकरण्यबलादेव धर्म्यभेदः सिद्धयति किं तत्र लक्षणयेति नेत्याह-न च ब्रह्मति / यद्यपि त्वदुक्तविधया सत्यज्ञानाद्यभेदः सिध्यति तथापि द्रव्यं घट इत्यत्र द्रव्यत्वघटत्वविशिष्टयोः अभेदवदत्रापि सत्यत्वादिविशिष्टानामभेदः स्यात् / न च स शास्त्रप्रतिपाद्य: निर्धर्मकसत्याद्यात्मकब्रह्मणएव तत्प्रमेयत्वात् / अत्र च लक्षणा आवश्यकीत्याहतथापीति / धर्मविशिष्टस्य धर्ममात्रस्य वा पदवाच्यत्वेऽपि वाक्यात् धर्मिणामेवाभेदान्वयबोधः किं न स्यादित्यत आह-न हीति / पदशक्तिगोचरस्य पदार्थान्तरेणान्वयनियमात् अन्यथा पदादुपस्थितिवैयर्थ्यात् विशिष्टस्य वाच्यत्वमते तदेकदेशर्मिमात्रस्य, धर्ममात्रस्य वाच्यत्वमते नु अवाच्यर्मिमात्रस्यान्वयो न युक्त इत्यर्थः / जातिवाचकपदैः व्यक्तिलक्ष्येति मतेपि वाक्यार्थब्रह्मणः ततो विशेषमाह-- किञ्चेति घटादेर्वाच्यत्वमतेऽपि वाक्यार्थब्रह्मणः ततो विशेषमाह-प्रकृतीति / न च हेत्वसिद्धिः। तस्यानन्तरं वक्ष्यमाणत्वादिति भावः / एवमौपनिषदब्रह्मणः सत्यादिवाक्यलक्ष्यत्वमभिधाय परोक्तचोद्यमनूद्यापवदति-यत्त्वित्यादिना / ब्रह्मणि सत्त्वेनेति / तस्य तत्पदवाच्यत्वमित्यनुषङ्गो द्रष्टव्यः / त्वदुक्तानवस्थेति / ब्रह्मणः सर्वपदलक्ष्यत्वे लक्षपदवाच्यार्थसंबन्धितया शब्दान्तरेण ज्ञातता वाच्या। तस्यापि तल्लक्षकत्वात् / तदर्थ बन्धितयाऽन्येन ज्ञातव्यमित्यनवस्थापरिहाराय वा तस्य वाच्यतेत्यर्थः / तदयोगादिति / सर्वशब्दलक्ष्यत्वायोगादित्यर्थः /

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96