Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 14 सटोकाद्वैतदीपिकायाम् अवाच्यादिपदा मुख गर्थता वस्तुतस्तु अवाच्यमिति वाक्यमेव नजपदलक्षणया वाच्यान्यब्रह्म प्रतिपादयति / ननु स्वरूपमात्रमेव लक्ष्यादिपदशक्यं भवत्विति चेत न, शक्तः परमतेऽपि विशिष्टदिषयत्वात्। अनवस्थाशङ्कानिरासः नापि त्वदुक्तानवस्था विचारादिना तस्य वात्स्यसंबन्धित्वेन निर्णीतत्वात् पूर्वमपि सत्यत्वादेः सदादिस्वरूपमात्रसंबन्धित्वस्य समानाधिकरणवाक्यत्वेनैकार्थनिर्णयसंभवेन एकार्थनिष्ठत्वस्यावगन्तुं शक्यत्वात् / लक्ष्यतावच्छेदकं च नात्रापेक्षितम् / लक्ष्यस्वरूपस्य स्वरूपतो ब्यावृत्तत्वात्, एकत्वाच्च / ननु लक्ष्यस्य लक्षक नामपदयुक्तस्य नत्रः पर्युदासलक्षकत्वस्य अब्राह्मणोऽयमित्यादिषु दर्शनात् लक्षणयैव तद्वाक्यं निखिलवाच्यान्यत्वं बोधयतीत्यर्थः / लक्ष्यादिपदानां विशिष्टे शक्तिः स्वरूपं तु लक्षणयैव बोध्यत इति कल्पनाद्वरं स्वरूपस्यैव शक्यत्वकल्पनमिति शङ्कते-नन्विति / पदमात्रान्निर्विकल्पकबोधायोगात् विशिष्टस्यैव शक्यत्वं परमतेऽपि वाच्यम् / सिद्धान्तेऽप्यविशिष्टं स्वरूपस्य वाक्यार्थत्वात् / तत्र पदानां शक्तत्वे पर्यायताप्रसङ्गाच्च विशिष्टस्य शक्यतेत्यभिप्रेत्याह-न शक्तेरिति / अनवस्थापरिहाराय वाच्यत्वमुपेयमिति कल्पं निराकरोति-नापि त्वदुक्तेति / यथा विमर्शोपस्थितनियोगादौ परेषां व्युत्पत्तिः एवं सर्वेषां विशिष्टानां द्रव्यत्वादिना मिथ्यात्वेनावगतानामधिष्ठानतया विमर्शावगते ब्रह्मणि सर्वपदलक्षणेति कुतस्त्वदुक्तानवस्थेत्यर्थः / तहि विचारात् प्राक् लक्ष्याज्ञानात् जिज्ञासाप्रयोजकं ज्ञानं वेदान्तान्नसिद्धयत् इत्याशङ्क्याऽऽह-पूर्वमपीति / तथापि सत्त्वादीनामाश्रयभूतं किञ्चिदस्तीति ज्ञानसंभवात् सत्यादिपदानां समानाधिकरणतया पदार्थानामेकत्वज्ञानसंभवाच्च / तदेव लक्षणया ततोऽवगम्यत इत्यर्थः / निविशेष लक्ष्यतावच्छेदकाभावात् न लक्षणेत्याशङ्क्याह-लक्ष्यतेति / प्रकारान्तरेण लक्षणमाक्षिपति-नन्विति / सत्यादिपदैः किं लक्ष्यमिति पृष्टे शब्दान्तरेणामुकमिति वक्तव्यम् / तस्यापि लक्षकत्वेन तेनापि लक्ष्यं किमिति पृष्ट पुनः शब्दान्तरेणेत्यनवस्थापातात् बोधो दुर्घट इत्यर्थः / सत्यत्वादिविशिष्टवाचकैः सत्यादिपदैः स्वरूपमात्र लक्ष्यत इत्युक्ते योग्यताद्यनुरोधेन स्वरूपविशेषस्यैव- बुद्धिस्थत्वात् न प्रश्नावकाशः। यथा-शब्दोऽनित्य इति प्रयोगस्य शब्दपदवाच्यमात्रेऽनित्यत्वबोधकत्वायोगात् व्यक्तिमात्रलक्षकत्वेऽपि योग्यतानुरोधेन व्यक्तिविशेष एवानित्यत्वान्वितत्वेनोपस्थाप्यते / इतरथा तत्रापि शब्दपदेन लक्ष्यः क इति पृष्ट शब्दान्तरेण तदभिधाने तस्यापि किञ्चिद्धर्मवाचकत्वात् तत्पर्युदासेन व्यक्तिमात्रलक्षकत्वं वक्तव्यमिति तेनापि लक्ष्यं किमिति पृच्छायां पुनस्तावत् शब्दान्तरेणेत्यनवस्थया तस्याबोधकत्वापा

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96