Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतदीपिकाया निस्तत्वात् / निविशेषवाक्यस्य स्वरूपमात्रपरत्वे विशेषाविरोधात / तस्य निर्वि शेषत्वविशिष्टयपरत्वे तु निमित्तस्य सत्त्वेन निविशेषशब्दवाच्यतापातात् / अभावनिमित्तकशब्दवाच्यत्वे प्रामाणिकत्वाविशेषेण भावनिमित्तकशब्दवाच्यत्व स्यापि दुरपह्नवत्वात् / तस्मात् ब्रह्मणि सर्वेषां वेदान्तानां लक्षणेत्येतदयुक्तमिति / सिद्धान्तः ब्रह्मलक्ष्मेव / अत्रोच्यते / तात्पर्येण सत्यादिवाक्यप्रतिपाद्यं ब्रह्म न तद्वाक्यस्थपदशक्यम . तद्वाक्यार्थत्वात् सम्मवत ।वाक्यार्थनिर्गुणब्रह्मण एवास्माभिरवाच्यत्वाङ्गीकारात्। स्वप्रकाशस्यापि ब्रह्मणो वृत्तिविषयत्वमविरुद्धं वेद॑श्च मर्वैरहमेव वेद्य'इति औपनिषदमित्यादि श्रुत्या च वाक्यार्थत्वसिद्धिः / न चान्विताभिधानवादे नियोगादौ व्यभिचारः, अन्वयविशेषस्य तद्विशिष्टस्य ना वाक्यार्थस्य तत्पदागोचरत्वात् / न चाप्रयोजकत्वं सत्यज्ञानानन्दात्मनि ब्रह्मणि सत्यादिपदस्यकैकस्यशक्ती अस्तु तर्हि ब्रह्म अभावप्रवृत्तिनिमित्तकशब्दस्यैव वाच्यमिइत्याशङ्क्याह--अमावेति / पूर्वपक्षमुपसंहरति--तस्मादिति / वाच्यत्वाभावे वक्ष्यमाणतर्कानुग्राह्यमानं तावदाह-अथेति / मतद्वयसम्मतपक्षमाह तात्पर्येणेति / तात्पर्यभ्रमात् विशिष्टमपि वाक्यप्रतिपाद्यं तस्य वाच्यत्वाङ्गीकारात् तद्व्युऽदासाय तात्पर्येणेत्युक्तम् / सम्मतवदिति / यो यद्वाक्यार्थः स न तत्पदशक्यः यथा नदीतीरे फलानि सन्तीति वाक्यार्थः तीरफलसत्तासंसर्गः न तत्स्थपदशक्य इत्यर्थः / विशिष्टस्य वाच्यत्वमुभयसम्मतमिति न विवाद इत्याशक्य तथापि वाक्यार्थब्रह्मणो वाच्यत्वमस्मदनभिमतमित्याह-वाक्यार्थेति / स्वप्रकाशस्य' ब्रह्मणो वाक्यजन्यज्ञानाविषयत्वात् कथं वाक्यार्थतेत्याशक्याह-स्वप्रकाशस्येति / तथापि ब्रह्मणो वाक्यार्थत्वे न मानमित्याशङ्क्याह-वेदैश्चेति / नन्वत्र प्रधानपदार्थः स्वेतरपदार्थसंसृष्टः तस्येतरान्वयो वा वाक्यार्थः तदुभयमचिताभिधानवादे प्रधानपदार्थवाचकपदशक्यमेवेति तत्र व्यभिचार इत्याशङ्क्याहन चान्वितेति / पदार्थविशेषान्वयस्य तद्विशिष्टप्रधानपदार्थस्य वा वाक्यार्थत्वात् / तदुभयस्य च तद्वाक्यस्थपदशक्त्यगोचरत्वात् न व्यभिचार इत्यर्थः / न चैवमपि संसर्गो वाक्यार्थ इत्यादि वाक्यार्थे व्यभिचार इति वाच्यम् / तत्रापि संसर्गसामान्यस्य पद शक्यत्वात् पदार्थविशेषप्रतियोगिकससर्गविशेषस्य वाक्यार्थस्य संसर्गपदशक्त्यगोच. रत्वात् / अन्यथेतरपदवैयर्थ्यापातादिति भावः। तद्वाक्यार्थस्यापि तत्पदशक्तिगोचरत्वे बाधकाभावादप्रयोजकत्वमित्याशङ्क्याह-न चेति / तादृगुपस्थितेरिति / सत्यज्ञानानन्दात्मकं ब्रह्मेत्येवमाकारोपस्यितेः प्रसङ्गादित्यर्थः।। किञ्च वाक्यार्थे ब्रह्मणि किं सत्यादिपदानां एकमेव प्रवृत्तिनिमित्तं उत नाना, आद्ये दोषमाह-सर्वपदानामिति / द्वितीये निविशेषस्य वाक्यार्थब्रह्मणो न वाच्यत्व

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96