Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 34
________________ चतुर्थः परिच्छेदः प्रसङ्गात् / तथा च ब्रह्मणोऽपि लक्ष्यत्वे वाच्यार्थसंसगितया ज्ञेयत्वात् / औपनिषदस्य चाशब्देनाज्ञेयत्वात् / स्वप्रकाशतया नित्यसिद्धौ च शब्दवैयर्थ्यात् / अवाच्येलक्षकस्यैव तस्य वक्तव्यत्वात् / तत्रापि स्वार्थसम्बन्धित्वेन ज्ञेयत्वेनानवस्थेति कथमवाच्ये लक्षणा / न च वाचकस्यापि गहीतसंगतिकस्यैव बोधकत्वात् संबन्धग्रहणस्य च सम्बन्धिज्ञानाधीनत्वात् तस्य च ब्रह्मणः शब्दकमेयत्वात् तवाप्यनव. स्थेति वाच्यम् यौगिकशब्दानां वाक्यतुल्यत्वेनानपेक्षणात् / निमित्तामा त न शब्दवाच्यता / (पू.) / ननु प्रवृत्तिनिमित्ताभावात् कथं वाच्यत्वम् ? न च गुणक्रियाजात्यन्यतममात्मन्यस्ति। न च घटादाविवारोपितं निमित्तमस्तीति शङ्कनीयम् / आरोपिते श्रुतितात्पर्यायोगेन तात्पर्यविषयस्य वाच्यत्वायोगादिति चेत् / __न, सत्यादिशब्दानां लक्षकत्वे सिद्ध निमित्ताभावः तस्मिन् सिद्धे च लक्षकत्वमित्यन्योन्याश्रयात् / स्वरूपमात्रप्रश्नोत्तरत्वेन लक्षक्त्वमित्यस्याखण्डार्थत्वभङ्ग कथञ्चित् मुख्यार्थसंबन्धस्य वक्तव्यत्वादिति भावः / ततः किमित्यत आह-तथाचेति / स्वरूपप्रकाशेन वाच्यार्थसंबन्धितयाऽवगते लक्षणेत्याशक्याह-स्वप्रकाशेति / तर्हि शब्दादेवावगते ब्रह्मणि लक्षणेत्याशक्य तस्य तद्वाचकत्वानभ्युपगमात् लक्षणया बोधकत्वं वांच्यम् / तच्च पूर्वं तदवगमं विना नेत्यनवस्थेत्याह-अवाच्य इति / वेदैकगम्यब्रह्मणो वाच्यत्वेप्यनवस्था तुल्येत्याशक्य ब्रह्मादिपदानां यौगिकतया सङ्गतिग्रहं विनाप्यपूर्वब्रह्मबोधकत्वसंभवात् मैवमित्याहन च वाचकस्येत्यादिना / ननु ब्रह्मणो ब्रह्मादिपदगतावयवशक्तिगोचरत्वे तत्र सङ्गतिग्रह आवश्यकः तदगोचरत्वे च न वाच्यतेति चेन्न, वाक्यार्थविधया तत्रावगतेऽस्य पदान्तरवाच्यत्वसंभवात्। न च तद्वाक्यार्थस्य तत्पदशक्त्यगोचरत्वाल्लक्षणयैव ततस्तत्प्रतीतिर्वाच्या। ततश्च लक्षणापक्षोक्तदोषापात इति वाच्यम् / वाक्यार्थे शब्दप्रवृत्ति विनाप्याकाङ्क्षादिमहिम्नवावगतिसंभवादिति भावः। वाक्यार्थब्रह्मणो निर्धर्मकत्वान् न वाच्यतेति शङ्कतेनन्बिति / ननु त्वन्मते घटादीनां वास्तवधर्माभावेऽप्यारोपितधर्मवत्त्वाद्यथा वाच्यत्वं तद्वब्रह्मणोऽपि किं न स्यादित्याशक्य तथा सति वाच्यस्य श्रुतितात्पर्यगोचरता त्वदभिलषिता न सिद्धयेदित्याह-न च घटादाविति / सत्यज्ञानादिपदैः सत्यत्वादिधर्मविशिष्टधर्मिप्रतीतेः तस्य निर्धर्मकत्वमसिद्धम् / न च सत्यादिपदानां ब्रह्मस्वरूपमात्रलक्षकत्वात् न धर्मे प्रामाण्यमिति वाच्यम् इतरेतराश्रय इत्याह-न सत्यादीति / ननु प्रवृत्तिनिमित्ताभावात् सत्यादिपदानां लक्षकत्वमिति न ब्रूमः किन्तु स्वरूपमात्रप्रश्नोत्तरत्वात् तल्लक्षकत्वं ततश्च मानाभावात् प्रवृत्तिनिमित्ताभावः इति तत्राह-स्वरूपेति / इतोऽपि न प्रवृत्तिनिमित्ताभाव इत्याह-निर्विशेषेति /

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96