Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटोकाद्वैतदीपिकायाम् त्वेऽपि पदार्थस्य प्रकृतिप्रत्ययार्थस्य च वाच्यत्वेन तदर्थस्य ब्रह्मणो वाच्यत्वापरिहाराच्च / यदि च ब्रह्म न पदार्थः, किन्तु पदार्थसंसर्गरूपं तहि सखण्डं स्यात् / यदि तु अवाच्यमित्यादि न पदार्थद्वयाधिकस्वार्थसंसर्गपरं किन्तु ब्रह्ममात्रलक्षकं तहि न तेनावाच्यत्वादिसिद्धिः / तस्मानिविशेषादिशब्दचाच्यत्वं दुर्वारम् / 'यतो वाचो' निवर्तन्ते "अशब्दमस्पर्शमरूपमि"त्यादि श्रुतिस्त्वद्भुतत्वाभिप्राया। न हीदृगिति ज्ञेयम् / 'न वाच्यं न च दृश्यते पश्यन्तोऽपि न पश्यन्तीत्यादिश्रुतौ तद्दर्शनात् / पराभिमतेऽर्थे अशब्दमित्यादिशब्दचाच्यत्वस्यापि निषेधन तदसिद्धेः। यतो वाच इत्यत्रापि मनसा सहेति श्रुतौ मनोवृत्तेरिव अन्तः करणवृत्तिव्याप्ये ब्रह्मणि वाग्वृत्तेरपि निषेधायोगाच्च आनन्दाद्यनेकशब्दमुख्यार्थत्वाय निवर्तन्त इत्येकस्यैवामुख्यार्थत्वस्य न्याय्यत्वाच्च। 'अथ कस्मादुच्यते ब्रह्म" “यस्मादुच्यते परं ब्रह्म वचसा वाच्यमुत्तमं" इत्यादिश्रुतेश्च / ब्रह्मणो वाच्त्वेऽनुमानानि-पू (1) वेदान्ततात्पर्यविषयो ब्रह्म वाच्यम् वस्तुत्वात् लक्ष्यत्वात् तीरवत् (2) परमार्थसदादिपदं कस्यचिद्वाचकं पदत्वात् घटादिपदवत् (3) सत्यज्ञानादिवाक्यं वाच्यार्थतात्पर्यवत् वाक्यत्वात् अग्निहोत्रादिवाक्यवत् इत्यनुमानविरोधाच्च / विपक्षे लक्ष्यत्वं न स्यात् / तथाहि लाक्षणिकशब्दो न श्रुत एवार्थान्तरधीहेतुः तत्रागृहीतशक्तिकत्वात् / किन्तु स्ववाच्यार्थेऽनुपपत्तिदर्शने सति तत्यागेन स्वार्थसम्बन्धित्वेनावगतस्यार्थान्तरस्यावबोधकः गङ्गादिशब्दादौ तथा दर्शनात् / अन्यथाऽति स्यात् किन्तु तत्संसर्गरूपमित्याशक्याह - यदि चेति / अवाच्यादिपदस्य सर्वावयवैः ब्रह्ममात्रस्य लक्षणया प्रतिपाद्यमानत्वात् नोक्तदोष इत्याशङ्क्याह - यदि विति / न तेनेति / ब्रह्ममात्रस्य वाच्यत्वेनाविराधादित्यर्थः। ब्रह्मणो वाच्यत्वं श्रुतिविरुद्धमित्याशक्य श्रुतिरप्यन्यार्थेत्याह-यत इति / यथाश्रुतेऽनुपपत्तिमाह-परेति / न च अशब्द. मित्यत्र समासगतसर्वनाम्ना ब्रह्म लक्षणयोपादाय तत्र शब्दवाच्यत्वनिषेधो वाक्यार्थ इति वाच्यम्। सर्वनाम्नः सर्वाभिधायकतया लक्षकत्वायोगादित्यभिमानः / किञ्च मनोवृत्तिगोचरे, ब्रह्मणि मनसा सह वाचः प्रवृत्तिनिषेधः न यथाश्रुतार्थः संभवतीत्याहयतो वाच इति / ननु त्वदुक्तार्थेऽपि श्रुतहानिरश्रुतकल्पना च दोष इत्याशङ्कय बहूनामनुग्रहात् स न दोषः इत्याह-आनन्देति / ब्रह्मणो वाच्यत्वस्य श्रुत्यनुमानसिद्धत्वादप्येव मेवेत्याह---अथ कस्मादित्यादिना / हेतूनामप्रयोजकत्वं निरस्यति–विपक्ष इति / मुख्यार्थसंबन्धस्तदवगमो न लक्षणाहेतुः विषं मुझ्वेत्यादौ तदभावादित्यत आह अन्यथेति / मुख्यार्थसंबन्धादेरनियामकत्वे गङ्गादिपदात् पर्वतादिलक्षणाप्रसंगात् / विषवाक्येऽपि

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96