Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतदीपिकायाम् ब्रह्मणः अवाच्यत्वे पूर्वपक्षः अत्र नवीनः न ब्रह्म सर्वशब्दावाच्यं अवाच्यपदेनैवाभिधानात् / न च तेनापि लक्ष्यते अवाच्यरूपमुख्यार्थस्याभावात् भावे वा ब्रह्मावाच्यमेव अवाच्यपदवाच्यरूपमुख्यार्थसम्बन्धिमात्रमिति स्यात् / मुख्यार्थहीनस्य ब्रह्मलक्षकत्वे घटशब्दोऽपि घटलक्षकः स्यात् / एवं निविशेषं स्वप्रकाशं परमार्थसदित्यादिशब्दः ब्रह्मोच्यते चेत् वाच्यत्वसिद्धिः। न च तैर्लक्ष्यते निविशेषस्वप्रकाशादिरूपस्य मुख्यस्यान्यस्याभावात् / एवं लक्ष्यशब्देनोच्यते चेत् लक्ष्यत्वहानिः गङ्गाशब्दलक्ष्यस्यागङ्गात्बवत् लक्ष्यपदलक्ष्यस्यालक्ष्यत्वात् / निविशेषादिपदानां विशिष्टवाचित्वेन आक्षेपः ननु निविशेषादिशब्दानां विशेषाभावादिविशिष्टं वाच्यम् / तच्च न ब्रह्म, र्णवो येन तत् तथोक्तं,हिरण्यगर्भानन्दस्य मानुषानन्दाद्यपेक्षया भूयस्त्वात् अर्णवत्त्वोक्तिः। तथापि तस्य भार्यया रत्यादिश्रवणात् तदानन्दस्यानर्थसंभिन्नत्वात् परिच्छिन्नत्वाच्च नरहरिपदोपलक्षितपरब्रह्मानन्दापेक्षया निकृष्टत्वाद्धेतोरित्यर्थः। प्राचीनवाचां वेदानामपि शक्तिर्नेति संबन्धः। सच्चिदानन्दाखण्डब्रह्मणि नरहरिपदप्रयोगे निमित्तमाह-मोहेति / मोह एवामरारिः हिरण्यकशिपुः परोपद्रवकारित्वसामान्यात् तस्यारि:स्वाकारवृत्तिसाक्षात्काररूपनखैः संहर्ता तस्मिन्नित्यर्थः। श्रतिगतमिति / श्रुतिभिलक्षणया प्रतिपाद्यमित्यर्थः / कृपैव राकासुधाकरः पूर्णचन्द्रः / अस्पष्टमिति च्छेदः / प्राधान्येन परिच्छेदप्रमेयमाह--अथेति / पदार्थप्रतिपत्तिपूर्वकत्वात् वाक्यार्थप्रतिपत्तेः तत्त्वंपदार्थनिरूपणानन्तरं वाक्यार्थों निरूप्यत इत्यर्थः / विप्रतिपत्तेरिति / जीवस्य ब्रह्मत्वेनोपासनं वाक्यार्थ इति केचित् / अंशांशिभाव इति परे। शरीरशरीरिभाव इत्यन्त्ये। एवं सत्यादिवाक्येऽपि सत्यत्वादिसंसर्ग एवार्थ इति सर्वे / भगवत्पादीयास्तु उभयत्राप्यखण्डब्रह्मैव वाक्यार्थ इत्यास्थिताः। ततश्च इतरमतनिरासेन अखण्डार्थत्वमुपपादनीयमित्यर्थः। सत्यादिपदानां शक्त्या ब्रह्मप्रतिपादने तस्याखण्डार्थत्वायोगात् लक्षणयैव तत्प्रतिपादनमिति वक्तुं तत्पदशक्तिस्तावन्निराक्रियत इत्याह तदर्थ चेति / पूर्वपक्षमनुवदति--अत्रेति / मुख्यार्थस्याभावादिति / ततश्च शक्यसंबन्धरूपलक्षणाबीजाभावात् ब्रह्मणो नावाच्यपदलक्ष्यतेत्यभिमानः। ब्रह्मातिरिक्तावाच्यपदवाच्याभ्युपगमे तल्लक्ष्यमपि ब्रह्म वाच्यमेव स्यात् अवाच्यान्यस्य वाच्यत्वनियमादित्याहभावे वेति / अवाच्यपदमुख्यार्थाभावे दोषान्तरमाह-मुख्येति / उक्तमन्यत्रातिदिशतिएवमिति / लक्ष्यपदेनापि ब्रह्म लक्ष्यत इत्याशङ्क्याह-गङ्गति / विशिष्टस्वरूपयोर्भेदात्

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96