Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 38
________________ चतुर्थः परिच्छेदः कत्वाच्च / पदस्यानुभावकत्वे अन्वयप्रतियोग्युपस्थापकत्वमेव तन्त्रम् / न तु शक्तत्वं गौरवात् / अशक्तादपि तदुपस्थितिदशायां ततोऽनुभवदर्शनात् / समभिव्याहतपदानां संभूयकारित्वव्युत्पत्तिविरोधाच्च / विभक्तेः स्वप्रकृत्या सह स्वार्थान्वयबोधकत्वानुभवाच्च / न च वाक्ये शक्त्यभावात् कथं तेन तत्संसर्गो लक्षणीयः शक्यसंबन्धाभावादिति वाच्यम्। पदसमूहो हि वाक्यम् तत्समूहश्च एकधर्मावच्छिन्नानि पदान्येव तानि च शक्तानीति तसंसर्गस्तदर्थसंबन्ध्येव लाक्षणिकपदार्थसंसर्गोऽपि परम्परया शक्यसंबद्ध एव / अन्यथाऽर्थवादपदसमुदाये लक्षणा न स्यात् / वाक्यार्थप्रतीत्युद्देशेन वाक्यप्रयोगानुपपत्तिलक्षणाबीजम् / पदानां वृत्तिद्वयनिरासः नन्वेवमेकस्मिनप्रयोगे पदेषु वृत्तिद्वयं विरुद्धमिति चेत्, न, एकस्य ज्ञानस्य वृत्तियाजन्यत्वात् ज्ञानभेदस्यावश्यकत्वात् / गङ्गायां यादांसि घोषश्चेत्यत्र तात्पर्यज्ञाने युगपदन्वयबोधस्य परैरभ्युपेतत्वाच्च / पदार्था अपि संसर्गावच्छेदकतयाऽनु लक्षकपदस्याननुभावकत्वे प्राथमिकसामान्यव्युत्पत्तिविरोधश्चेत्याह-समभिव्याहृतेति / किञ्च गङ्गापदस्याननुभावकत्वे तद्गतसप्तमीविभक्तेरप्यनुभावकत्वं न स्यादित्यभिप्रेत्याऽऽह-विभक्तरिति / लक्षणायाः शक्यसंबन्धिविषयत्वात् वाक्यस्य च शक्याभावात् न लक्षणेत्याशडक्याह-न च वाक्य इति / एकधर्मावच्छिन्नानीति / एकज्ञानेन क्रोडीकृतानीत्यर्थः / एवं तर्हि गङ्गायां घोष इत्यादौ न संसर्गस्य लक्ष्यता / तीरादेरमुख्यार्थत्वेन तत्संसर्गस्य मुख्यसंबन्धाभावादित्याशक्य तीरादिद्वारा तस्यापि मुख्यसंबन्धोऽस्तीत्याह-लाक्षणिकेति / साक्षादेव मुख्यसंबन्धस्य लक्षणाहेतुत्वे दोषमाह-वाक्यार्थेति / ननु मुख्यार्थान्वयानुपपत्तेर्लक्षणाबीजत्वान् गामानयेत्यादौ च तदभावान्न लक्षणेत्याशक्य विषंभुट्वेत्यादौ तदभावादन्यदेव लक्षणाबीजमित्याह-नन्विति / अनेन वाक्येन एतसंसर्गादिकं जानातु' इति प्रतीत्युद्देशेन यः प्रयोगः तदनुपपत्तिरित्यर्थः। तथा च परम्परया वह्निवैशिष्टयप्रतीत्युद्देशेन प्रयुक्ते धूमोऽस्तीति वाक्ये लक्षणेति भावः।। पदानां पदार्थेषु शक्तिः संसर्गेषु लक्षणेत्यनुपपन्नम् सकृत्प्रयुक्तपदानां वृत्तिद्वयेन बोधकत्वादर्शनादिति चोदयति-नन्विति / पदार्थवाक्यार्थज्ञानयोः भिन्नत्वात् असमानविषयत्वाच्च वृत्तिद्वयमावश्यकमित्याह-नैकस्येति / एकस्मिन् प्रयोगे मुख्यामुख्यार्थद्वयविवक्षया वृत्तिद्वयवत्ताऽन्यत्रापि दृष्टेत्याह-गंगायामिति / ननूपस्थितपदार्थविशेषसंसर्ग एव वाक्यार्थः। तस्य लक्ष्यत्वे पदार्थानामपि लक्ष्यतयाऽजहल्लक्षणा स्यात् / सा चानुपपन्ना, शक्याशक्यसाधारणरूपस्य लक्ष्यतावच्छेदकस्याभावात् इत्याशक्याह-पदार्था अपीति / गङ्गापदात् गङ्गाविशेषिततीरोपस्थितावपि तत्र नाजहलक्षणोपेयते। तत्कस्य हेतोः? छत्रिणो यान्तीत्यादाविवैकधर्मावच्छिन्नस्वतन्त्रपदार्थद्रयानुपस्थितेः / एवं वाक्यार्थप्रमितावपि पदार्थांनां संसर्गावच्छेदकतयैव प्रतीतेः स्वातन्त्र्येण तदेकधर्मावच्छिन्नतया

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96