Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 36
________________ चतुर्थः परिच्छेदः एकपदेनैव तादमुपस्थितेः. पदान्तरवयर्थ्यस्य च प्रसंगात / सर्वपदानां तत्र शक्ती सत्यज्ञानादिपदानां पर्यायतापत्तिश्च / प्रवृत्तिनिमित्तभेदे च विशिष्टस्य धर्ममात्रस्य वा शक्यतापातात् / नागमाभिमतब्रह्मणः शक्यत्वम् / सर्वपदलक्षणायां तु पदान्तरवैयर्थ्यपरिहारं वक्ष्यामः / सत्यादिपदं न ब्रह्मवाचकं तत्प्रतिपादकवाक्यंकदेशपदत्वात् / यत् यदर्थवाक्यैकदेशपदं न तत तद्वाचकम् घटादिपदवत्। वाक्यार्थस्य तदेकदेशपदार्थत्वे सह श्रुतनिखिलपदानां परस्पराान्वितस्वार्थबोधकता व्युत्पत्तिसिद्धा बाध्येत / न च लक्ष्यत्वेऽप्ययं दोषः, प्राशस्त्यस्येव एकस्याप्यनेकपदलस्यत्वसंभवात् / न च लक्ष्यस्यापि शक्यसंबन्धितया पूर्वमवगमात् ब्रह्मणोऽपूर्वताक्षतिः मानान्तरं विनापि विचारेणैव तदवगमात्। वाक्यार्थस्य लक्ष्यत्वमेव किञ्च अभिहितान्वयवादिनामन्विताभिधानवादिनां वा वाक्यार्थमात्रं मित्याह-प्रवृत्तीति / त्वन्मतेपि एकपदलक्ष्यस्यैव पदान्तरलक्ष्यत्वाद् तद्वैयर्थ्य मित्याशक्याह-सर्वपदेति / सत्यज्ञानानन्दाद्यभेदसंशयविरोधिप्रतीतेरेकैकपदादनुत्पत्तैः तस्या वाक्यैकसाध्यत्वमनन्तरवादे वक्ष्यत इत्यर्थः। शब्दपक्षकानुमानमप्याह-सत्यादीति / घटादिपदवदिति / न च घटादिलक्षणवाक्यस्थघटादिपदे व्यभिचारः। तस्याप्यतिदेशकस्य स्वरूपमात्रलक्षकत्वादिति भावः। तद्वाक्यार्थस्य तत्पदवाच्यत्वे प्राथमिकशब्दसामर्थ्यव्युत्पत्तिविरोधश्चेत्याह-वाक्यार्थस्येति / एकस्यानेकपदलक्ष्यत्वमपि न कुत्रापि दृष्टमिति ब्रह्मणाऽपि तदनुपपत्तिशङ्कायामाह-न च लक्ष्यत्वेऽपीति / वायु:क्षेपिष्ठा देवतेत्यादेः एकप्राशस्त्यलक्षक्त्वाभ्युपगमात् / अर्धमन्तबेदीत्यादेश्चैकमध्यदेशलक्षकत्वान्न तदनुपपत्तिरित्यर्थः / मानान्तरेण शक्यसंबन्धितयाऽवगतस्यैव तीरादेः गङ्गादिपदलक्ष्यत्वदर्शनात् ब्रह्मणोऽपि लक्ष्यत्वे तथाऽवगतत्वमेष्टव्यम्। ततश्चापूर्वताक्षतिरित्याशक्य लक्ष्यस्य वाक्यसंबन्धितयाऽवगतिरेव लक्षणायां निमित्तं न माना. न्तरेण गौरवात् / ततश्च शक्येन सत्त्वादिविशिष्टेन लक्ष्यस्य विशेष्यस्य तादात्म्यसंबन्धस्य तर्केणैव निर्णयाल्लक्षणोपपत्तिः मानान्तरासिद्धत्वादपूर्वता चेत्याह-न च लक्ष्यस्येति / इतोऽपि न लक्ष्यस्य मानान्तरेणावगमनियम इत्याह-किञ्चेति / न चान्विता भिधानवादे इतरान्वयस्य पदशक्यत्वात् शक्त्यैव वाक्यार्थधीरिति वाच्यम् / तथाप्यन्वयविशेषस्यैकैकपदशक्त्यगोचरत्वात् समुदाये शक्त्यन्तराभावाच्च लक्षणयैव तत्प्रतीतिरुपेयेति भावः। पदानां स्वशक्तिभिरेव पदार्थस्मरणद्वारा वाक्यार्थबोधकत्वसंभवात् कथं लक्षणेत्याशङ्क्याह-न च पदेति / जातिः शब्दार्थ इति मते व्यक्तेः शक्त्यगोचरत्वेऽपि जतिस्तां विनाऽपर्यवसानात् शक्तिजन्यज्ञानविषयत्वमस्ति / तव्यावर्तयितुं अपयंवसानालभ्यस्येत्युक्तम् / न च साक्षाच्छक्तिजन्यज्ञानविषयस्यैव शक्यत्वमिति वाच्यम् /

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96